________________
सप्तमो नर्तनाध्यायः द्वात्रिंशन्मर्दलधरा वरास्तालधरद्वयम् । कांस्यतालधरास्त्वष्टाविष्टाः काहलिकद्वयम् ।। १२५३ ॥ वांशिकौ रसिकौ व्यक्तसुरक्तमचुरध्वनी । चत्वारो मधुरध्वाना भवन्त्येते वरास्तयोः ॥ १२५४ ॥ द्वौ मुख्यगायनौ सार्धमष्टभिः सह गायनैः । मुख्यगायनिके चाष्टौ सहगायनिकास्तयोः ॥ १२५५ ॥ संप्रदायसमुल्लासि पात्रमेकं गुणान्वितम् । सर्वेऽमी रूपवन्तः म्युश्चित्रालंकरणान्विताः ॥ १२५६ ॥ गीतादिसाम्यनिपुणाः प्रहर्षोत्फुल्लचेतसः । उत्तमः संप्रदायोऽसौ लोके कुटिलमुच्यते ।। १२५७ ।। तदर्ध मध्यमो न्यूनोऽस्मात्कनिष्ठो निगद्यते ।
___इति संप्रदायलक्षणम् पयोगिनां वादकगायकानां बृन्दं संप्रदाय इति लोकरूढ्या उच्यते । ॥ १२५७- ॥
___ इति संप्रदायलक्षणम् । (सु०) संप्रदाय लक्षयति -- यत्रेति । यत्र एको मुखरी; प्रतिमुखरी चैकः ; द्वावावजधरौ ; द्वावड्डावजौ ; द्वौ करटधारिणौ ; द्वात्रिंशन्मदलधराः ; द्वौ तालधरौ; अष्टौ कांस्यतालधराः ; द्वौ काहलवादको ; वांशिकाश्चत्वारः ; अष्टभिर्गायनैः सह द्वौ मुख्यगायनौ ; अष्टौ गायनीयुक्ते द्वे मुख्यगायन्यौ ; तयोर्मध्ये एकं गुणान्वितं संप्रदायसमुल्लासि पात्रम् , सर्वेऽपि चित्रालंकरणान्विता रूपशालिनः ; गीतादिसाम्यपटवः; संतोषविकसितमनसश्च भवन्ति ; स उत्तमः संप्रदायः, तदर्धे मध्यमः संप्रदायः, तद्राहित्ये कनिष्ठः ॥ १२५२-१२५७- ॥
इति संप्रदायलक्षणम् ।
Scanned by Gitarth Ganga Research Institute