________________
सप्तम नर्तनाध्यायः
३७१
गीतवाद्ययोरुपक्रमोपसंहारवेदिता । समादिग्रहविज्ञश्चेति । ताने ये महा समातीतानागताश्च त्रय उक्तास्तान्विशेषेण जानातीति तथोक्तः । वाद्यवादनवेदितेति । वाद्यानां ततादीनां वादनप्रकाराभिज्ञः । संप्रदायागतेति । शास्त्रे तत्र तत्र रहस्येषु गुरूपदेशात्परंपरायातपरिज्ञानवान् । ध्वनिमाधुर्यतत्त्वविदिति । ध्वनेर्नादस्य माधुर्यमिति । यस्य रागस्य यस्मिन्नादविशेषे क्रियमाणे रक्तिविशेषः, तद्ध्वनिमाधुर्यमित्युच्यते; तस्य तत्त्वं स्वरूपं वेतीति तथोक्तः । स्थायाधिक्योनताभिज्ञ इति । स्थायानां रागावयवानामाधिक्यमूनता च तयोरभिज्ञ इति तथोक्तः । लोके यथा करचरणादीनामवयवानामाधिक्योनते पश्यत्येवं रागेषु स्थायाधिक्योनते जानातीत्यर्थः । कुशलो लयतालयोरिति । लयो द्रुतादिः ; तालश्च चत्पुटादिः ; तयोः कुशलत्वं नाम वर्तमाने लये लयान्तरकरणं, वर्तमाने ताले तालान्तरकरणं चेत्यर्थः । वाद्यप्रबन्ध निर्मातेति । वाद्यप्रबन्धाः पूर्वोक्ता यत्यादयः । ता निर्मातुं शक्त इत्यर्थः । मुखवाद्येषु कोविद इति । मुरजादिवाद्योद्भवा वर्ण संघाता एव तालधरेणोच्चारिता मुखवाद्यानीत्युच्यन्ते तेषु कोविदः ; तद्गुणदोषाभिज्ञः । उद्भेत्ता नृत्नभङ्गीनामिति । तूर्यत्रयेऽपि नूतन प्रकाराणामुत्पादकः । शिष्य शिक्षणदक्षिण इति । शिष्याणां शिक्षणे सम्यग्वियासंक्रमणे समर्थः । नृत्तगीतवाद्यव्यवस्थितेः प्रतिष्ठापयितेति । तेन देशीमार्गविभागेन तूर्यत्रयव्यवस्थायाः प्रतिष्ठापकः । प्रविष्टो हृदयमिति । पात्रेण स्वहृदयं प्रविष्ट इति कर्मणि निष्ठा । यद्वा पात्रस्य हृदि स्वयं प्रविष्टश्वेत्यत्र कर्तरि निष्ठा । उपाध्यायपात्रहृदययोरेकीभावेन भवितव्यमित्यर्थः । अन्यथा सात्त्विकाभिनयोपदेशग्रहणेऽस्य न संभव इति भावः । रञ्जक इति । अभिनयोपदेशादिषु शास्त्र गोष्ठीषु च जनचित्ताकर्षकः । वृत्तदोषविधानविदिति । नृतस्य दोषं विधानं च वेतीति तथोक्तः । एवंविशिष्ट उपाध्यायः स्यात् । एतदुक्तं भवति - ' उपाध्यायेन
Scanned by Gitarth Ganga Research Institute