________________
३७०
संगीतरत्नाकर:
रूपवान्नृत्ततत्त्वज्ञो ग्रहमोक्षविचक्षणः ।। १२४७ ।। समादिग्रहविज्ञश्च वाद्यवादनवेदिता । संप्रदायागतज्ञानो ध्वनिमाधुर्यतत्त्ववित् ।। १२४८ ॥ स्थायाधिक्योनताभिज्ञः कुशलो लयतालयोः । वाद्यप्रबन्धनिर्माता मुखवाद्येषु कोविदः ।। १२४९ । उत्ता नूनभङ्गीनां शिष्यशिक्षणदक्षिणः । प्रतिष्ठापयिता नृत्तगीतवाद्यव्यवस्थितेः ।। १२५० ॥ प्रविष्टो हृदयं यद्वा पात्रस्य हृदि च स्वयम् । रञ्जकः स्यादुपाध्यायो नृत्तदोषविधानवित् ।। १२५१ ॥ इत्युपाध्यायलक्षणम् ।
हारिणी दीर्घा वा सरला वा वेणी ; कुन्तलाधिष्ठितं भालम् ; तत्र कस्तूरीचन्दनादिकल्पितं तिलकम्; अञ्जनमञ्जुलं नयनयुगलम् ; कान्तिसंततिदन्तुरतालपत्रपरिष्कृतं श्रवणयुगलम् ; रङ्गतटप्रोन्मेषघटनापटुप्रभापटलजटिलं दन्तमण्डलम् ; कस्तूरीपत्रभङ्गकोमलौ कपोलौ ; तारावलीपरिष्कृतः कण्ठः ; स्थूलमौक्तिकदाम कुचयुगलम् ; लसद्रत्नकनकवलयकमनीयं प्रकोष्ठद्वयम् ; माणिक्यवज्रमौक्तिकमेदुरा अङ्गुलय: ; चन्दनचर्चितं गात्रं, कुङ्कुमरञ्जितं वा ; दुकूलादिकं वसनम् ; सूक्ष्मं कूर्पासकं वा कञ्चुकं तत्तद्देशानुसारेण अन्यदपि वा मण्डनं ज्ञेयम् ॥ - १२३९-१२४६- ॥
इति पात्रमण्डनानि ।
(क०) लक्षणमाह - रूपवानित्यादि । उपाध्यायो नामात्र भरतादिशास्त्राभिज्ञोऽभिनयोपदेष्टा विद्वानभिधीयते । नृत्ततवज्ञ इति । नृत्तस्य गात्रविक्षेपमात्रं त्वित्यादिनोक्तलक्षणस्य तत्त्वं स्वरूपं ताललयाश्रयत्वादिकं जानातीति तथोक्तः । ग्रहमोक्षविचक्षण इति ।
Scanned by Gitarth Ganga Research Institute
उपाध्यायस्य