________________
३६९
सप्तमो नर्तनाध्यायः सुनीलस्निग्धविस्तीर्णकेशपाशनिवेशितः ।। १२३९ ।। प्रन्थिविलुलितः पृष्ठे लसत्पुष्पावतंसकः । वेणी वा सरला दीर्घा मुक्ताजालविराजितैः ।। १२४० ॥ कलितं कुन्तलैर्भालं कस्तूरीचन्दनादिना । रचितं चित्रकं भाले नेत्रे तन्वञ्जनाश्चिते ।। १२४१ ॥ उल्लसत्कान्तिवलये तालपत्रे च कर्णयोः । दन्तपङ्क्तिः प्रभाजालपोज्ज्वलीकृतर भू ॥ १२४२ ।। क तूरीपत्रभङ्गाङ्कौ कपौलौ कण्ठलम्बिता । ताराहारावली ग्थूलमौक्तिका स्तनमण्डना ॥ १२४३ ॥ प्रकोष्ठौ न्यस्तसदन्नसौवर्णवलयान्वितौ । अगुल्यो धृतमाणिक्यनीलवज्रादिमुद्रिकाः ॥ १२४४ ॥ चन्दनै—सरं गात्रं यद्वा कुङ्कुमरञ्जितम् । कीरोदकं दुकूलादि वस्त्रं कूर्पासकस्तनुः ।। १२४५ ॥ सकञ्चुकं वा चलनं तत्तद्देशानुसारतः । एतन्मण्डनमन्यद्वा पात्रयोः श्यामगौरयोः ॥ १२४६ ॥ यथोचितं विधातव्यमित्याह शिववल्लभः ।
___ इति पात्रमण्डनानि ।
(क०) तस्य पात्रस्य मण्डनमाह-सुनील स्निग्धेत्यादि ॥ -१२३९-१२४६- ॥
इति पात्रमण्डनानि। (सु०) अथ पात्रमण्डनानि लक्षयति-सुनीलेति । पृष्ठे, सुनीलस्निग्धविस्तीर्णकेशपाशनिवेशित: पुष्पालंकृतः विलुलितः प्रन्थिः ; मुक्तामालामनो
Scanned by Gitarth Ganga Research Institute