________________
३६८
संगीतरत्नाकरः ध्यस्तानां वा समस्तानामेषां दोषो विपर्ययः । गुणदोषौ परीक्षेत पात्रे नृत्तस्य सिद्धये ॥ १२३७ ॥ 'मार्कण्डेयपुराणोक्ता नृत्ते पात्रैकतन्त्रता । नृत्तेनामलरूपेण सिद्धिर्नान्येन रूपतः ॥ २२३८ ।। चार्वधिष्ठानवन्नृत्तं नृत्तमन्यविडम्बना ।
___ इति पात्रदोषाः। (सु०) अथ पात्रगुणान् लक्षयति-सौष्टवमिति । सौष्ठवम् ; अङ्गानां शोभावहत्वम् । रूपसंपत्ति: चारुविस्तीर्ण वक्त्रम् । विशालनयनत्वं बिम्बफलतुलिताधरत्वं, मज्जुलरदनत्वं, कम्बुकण्ठत्वं, चलल्लतोपमबाहुत्वं, तनुमध्यत्वं, नातिस्थूलनिताम्बत्वं, करभोरूत्वं, अत्युच्चपीनखर्वत्वराहित्यं लावण्यं, कान्ति:, माधुर्यम् , प्रागल्भ्यम् , गौरत्वम् , श्यामत्वमित्येते पात्रगुणाः । लयविलसितैः सतालै: कोमलै: रसभरितैः गात्रविक्षेपैः यत्पात्रम् , गीतावाद्ययोः अक्षराणि प्रोगिरदिव भासते तदुत्तमम् ॥ १२३१-१२३६ ॥
इति पात्रगुणाः । (क०) पात्रस्य दोषानाह-व्यस्तानां वेत्यादि । व्यस्तानां सौष्ठवादिष्वेकैकगुणानां समस्तानां समवेतानामेषां गुणानां विपर्ययोऽभावो दोषः । पात्रस्य गुणदोषपरीक्षणे प्रयोजनमाह-नृत्तस्य सिद्धय इति । नृतसिद्धेः पात्रैकतन्त्रतामभियुक्तसंमतिपूर्वकं दर्शयति-मार्कण्डेयेत्यादि । ॥ १२३७, १२३८- ॥
इति पात्रदोषाः। (शु०) अथ पात्रदोषान् लक्षयति-व्यवस्तानामिति । एषां व्यत्यासेन वा सामस्त्येन वा अभावो दोषः ॥ १२३७, १२३८- ॥
इति पात्रदोषाः । मुद्रितमार्कण्डेयपुराणे, अयं विषयो नोपलभ्यते। अपितु विष्णुधर्मोत्तरे तृतीयखणे रश्यते।
Scanned by Gitarth Ganga Research Institute