________________
३६७
सप्तमो नर्तनाध्यायः सौष्ठवं रूपसंपत्तिश्चारुविस्तीर्णवक्त्रता । विशालनेत्रता विम्बाधरता कान्तदन्तता ॥ १२३१ ॥ मुकम्बुकण्ठता वेल्लल्लतासरलबाहुता । तनुमध्योन्नतिस्थूलनितम्बकरभोरुता ।। १२३२ ॥ अत्युच्चखर्वपीनत्वराहित्यमशिरालता। लावण्यकान्तिमाधुयेधैर्योदार्यप्रगल्भता ॥ १२३३ ।। गौरता श्यामता वेति तज्ज्ञैः पात्रगुणा मताः । यत्पात्रं गात्रविक्षेपैः कोमलैविलसल्लयैः ।। १२३४ ॥ सुतालैरक्षराणीव प्रोद्रिगीतवाद्ययोः । गीतवाद्यध्वनि चाङ्गैश्वाक्षुषत्वमिवानयत् ॥ १२३५ ॥ सुमनांसीव गात्राणि रसपूर्णतया दधत् । नृत्यत्युत्तममाचष्ट तदिदं करणाग्रणीः ॥ १२३६ ॥
इति पात्रगुणाः । संपन्नं कामशिक्षितभावं यद्यौवनं तत् तृतीयम् | सुरते मन्दोत्साहमनस्कं म्लानस्तनाभोगकपोलजघनं यद्यौवनं तचतुर्थम् ; एतच्च जराभिमुखत्वात् शोभावैकल्याच्च बुधैर्नादृतम् । बालं मनोविहीनत्वान्न चतुरं जनाय ॥१२२४-१२३०॥
इति पात्रलक्षणम् । (क०) पात्रगुणानाह-सौष्ठवमित्यादि । सौष्ठवं नामानानां शोभनत्वम् । वैष्णवस्थानकोक्ताङ्गसंनिवेशो वा। रूमसंपत्तिरित्यस्यैव प्रपञ्चः, चारुविस्तीर्णवक्त्रतेत्यादि लावण्यादिप्रगल्भतेत्यन्तो बहूनां द्वन्द्वः । गौरता श्यामता वेति । कृष्णता पात्रस्य गुण इत्यर्थः ॥ १२३११२३६ ॥
इति पात्रगुणाः।
Scanned by Gitarth Ganga Research Institute