________________
३६६
संगीतरत्नाकरः सुरतं प्रति सोत्साहं प्रथमं यौवनं मतम् । पीनोरुजघनं पीनकठिनोचघनस्तनम् ॥ १२२६ ॥ जीवितं मन्मथस्योक्तं द्वितीयं यौवनं बुधैः । उन्मादकं श्रिया जुष्टं संपन्नरतिनैपुणम् ॥ १२२७ ॥ कामशिक्षितभावं च तृतीयं यौवनं विदुः । यौवनं तुर्यमप्यस्ति मन्दोत्साहमनो भवेत् ॥ १२२८ ।। म्लानाधरस्तनाभोगकपोलजघनं च तत् । अतिप्रगल्भमेतस्माद्यौवनात्पात्रमुच्यते ॥ १२२९ ॥ तज्जराभिमुखं शोभाविकलं नादृतं बुधैः । बालं मनोविहीनत्वान्न पात्रं तज्ज्ञरञ्जकम् ॥ १२३० ॥
___ इति पात्रलक्षणम् । नाधारत्वाविशेषेऽपि नृत्तविषये नर्तक्येव लोके पात्रमित्युच्यते ; न नर्तक इत्यर्थः । तत्पात्रं मुग्धं मध्यं प्रगल्भं चेति त्रेधा कीर्तितम् । मुग्धादेः पात्रस्य लक्षणम्-यौवनत्रितयं क्रमादिति । योवनानां वक्ष्यमाणानां प्रथमद्वितीयतृतीयानां त्रितयं तस्य क्रमादिति । प्रथमयौवनयुक्तं मुग्धं पात्रम् । द्वितीययौवनयुक्तं मध्यमं पात्रम् । तृतीययौवनयुक्तं प्रगल्भं पात्रमिति क्रमः । तेषां यौवनानां लक्षणमाह-लीनेत्यादि । १२२४-१२३० ॥
इति पात्रलक्षणम् । (सु०) अथ पात्रं लक्षयति-पात्रमिति । नर्तनाधारः पात्रम् , नृत्तपात्रं नर्तकीत्युच्यते । तत्पात्रं त्रिविधम् ; मुग्धम् , मध्यम् , प्रगल्भमिति । मुग्धादिलक्षणं तु यौवनत्रितयक्रमेण बोध्यम् । लीनाधरस्तनाभोगकपोलजघनोरुकं सुरतं प्रति सोत्साहं यद्यौवनं तत्प्रथमम् । पीनोरुजघनकठिनातिवनस्तनमन्मथजीवितं यद्यौवनं तद् द्वितीयम् । उन्मादकशोभया समन्वितं रतिनैपुण
Scanned by Gitarth Ganga Research Institute