________________
तो नर्तनाध्यायः
दण्डिकालम्बिनी कन्याभ्यस्येदङ्ग विवर्तनम् ।
वलनं स्थापनं रेखां तालसाम्यं लयानपि ॥। १२२२ ॥ अङ्गादीनि पुरोक्तानि लास्याङ्गान्यखिलान्यपि । गीतवाद्यानुगमनं शिक्षेत सुमनाः सती ।। १२२३ ॥ इति श्रमविधिः ।
३६५
पात्रं स्यान्नर्तनाधारो नृत्ते प्रायेण नर्तकी ।
मुग्धं मध्यं प्रगल्भं च पात्रं त्रेधेति कीर्तितम् ।। १२२४ ॥ मुग्धादेर्लक्षणं प्रोक्तं यौवनत्रितयं क्रमात् । लीनाधरस्तनाभोगकपोलजघनोरुकम् ।। १२२५ ।।
सामान्यवचनम् ; वलनमित्यादि तु विशेषवचनम् । श्रमो नाम नर्तन शिक्षाभ्यास उच्यते ॥ १२१७–१२२३ ॥
इति श्रमविधिः ।
(सु० ) अथ श्रमविधिं लक्षयति - विघ्नेशमिति । विघ्नेश, भारती, देवीं, ब्रह्मविष्णुमहेशान्, रङ्ग, रङ्गदेवताः, तालवाद्यभाण्डानि च क्रमात् उपाध्यायं, नृत्तकन्याः, स्तम्भयुग्मं, दण्डिकां च, कस्तूरिका चन्दनसुगन्धिपुष्पधूपदीपनैवेद्यवस्त्रताम्बूलादिभिः समभ्यर्च्य, शुभे लग्ने श्रमः कार्यः । स्तम्भयोरुपरि हृदयसंमितां हस्तग्राह्यां तिरश्चीनां दण्डिकावष्टम्भाय कापि कन्या न्यस्तव्या । तद्दण्डिकावलम्बिनी धवलवस्त्रपरिष्कृता, दृढकञ्चुकवती कन्या अङ्गविवर्तनं, वलनं, स्थापनं, रेखां, तालसाम्यं लयान् प्रागुक्तान्यङ्गहारादीनि सकलानि लास्याङ्गानि चाभ्यस्येत् । गीतवाद्यानुगमनं च शिक्षेत ॥ १२१७-१२२३॥ इति श्रमविधिः ।
(क०) अथ पात्रस्य लक्षणमाह - पात्रं स्यादित्यादि । नर्तनाधारो नर्तकी नृते प्रायेण पात्रं स्यादिति योजना | नर्तकस्यापि नर्त
Scanned by Gitarth Ganga Research Institute