________________
३६४
संगीतरत्नाकरः शिरोनेत्रकरादीनामङ्गानां मेलने सति । कायस्थितिर्मनोनेत्रहारी रेखा प्रकीर्तिता ॥ १२१६ ॥
इति रेखालक्षणम् । अथ श्रमविधिः
विघ्नेशं भारती देवीं ब्रह्मविष्णुमहेश्वरान् । रङ्गं तदेवतास्तालवाद्यभाण्डानि च क्रमात् ॥ १२१७ ॥ उपाध्यायं नृत्तकन्याः स्तम्भयुग्मं च दण्डिकाम् । कस्तूरिकाचन्दनायैः सामोदैरनुलेपनैः ॥ १२१८ ॥ शुभैः सुगन्धिभिः पुष्पैयूंपैरारात्रिकैरपि । नैवेद्यैर्विविधैर्वस्त्रैस्ताम्बूलैर्बलिभिस्तथा ॥ १२१९ ॥ अर्चयित्वा शुभे लग्ने प्रारभेत श्रमं सुधीः । स्तम्भद्वयोपरिन्यस्येत्कन्या हृदयसंमिताम् ॥ १२२० ॥ हस्तग्राह्यां तिरश्चीनामवष्टम्भाय दण्डिकाम् । वसित्वा वसनं शुभ्रं दृढमादाय कञ्चकम् ॥ १२२१ ॥
(क०) अथ रेखां लक्षयति-शिरोनेत्रेत्यादि । मनांसि नेत्राणि च हरतीत्यर्थे, हरतेरौणादिक इन्पत्यये ङीषि हारीति रूपं वेदिव्यम् ॥ १२१६ ॥
इति रेखालक्षणम् । (सु०) अथ रेखालक्षणमाह-शिरोनेत्रेति । शिरोनेत्रकराद्यङ्गमेलने मनोनेत्रहारिणी कायस्थिति:, रेखेत्युच्यते ॥ १२१६ ॥
इति रेखालक्षणम् । (क०) अथ श्रमविधिमाह-विघ्नेशमित्यादि । अङ्गविवर्तनमिति
Scanned by Gitarth Ganga Research Institute