________________
सप्तमो नर्तनाध्यायः सतालललितोपेता क्रमात्कयाईयोर्नतिः । धनुर्वदङ्गहारः स्यादिति निःशङ्कभाषितम् ॥ १२१३॥
इत्यारहार: (७) किंचित्तिर्यगधो मूनों गतिरोयारको मतः ।
___ इत्योयारकः (6) स्मितं स्याद्विहसी यस्तु शृङ्गाररसनिर्भरः ॥ १२१४ ।। अभ्यस्तादन्य एवातिसूक्ष्मप्रत्यग्रभङ्गिभाक् ।
___ इति विहसी (९) गीतादेरागतः स्थायस्तल्लयात्तन्मनो मतम् ॥ १२१५ ॥
___ इति मनः (१०) (सु०) अङ्गहारं लक्षयति-सतालेति । यत्र सतालललितोपेता, धनुर्वत् कायार्धयोर्नतिः, स अङ्गहारः ॥ १२१३ ॥
इत्याहार: (७) (सु०) ओयारकं लक्षयति-किंचिदिति । यत्र मूर्धः किंचित् तिर्यगधोगतिः क्रियते, स ओयारक इत्युच्यते ॥ १२१३- ॥
इत्योयारकः (८) (सु०) विहीं लक्षयति-स्मितमिति । यत्र शृङ्गाररसनिर्भरः, अभ्यस्तात् अन्य एव अतिसूक्ष्मप्रत्यग्रभङ्गिभांक् स्मितं क्रियते, सा विहसी ॥ ।। -१२१४, १२१४-॥
इति विहसी (s) (सु०) मनो लक्षयति-गीतादेरिति । यत्र गीतादिस्थायलयो वर्तते, तद् मनः ॥ -१२१५॥
इति मनः (१०) इति दश लास्याङ्गानि ।
Scanned by Gitarth Ganga Research Institute