________________
३६२
संगीतरनाकरः विलम्बेनाविलम्बन कुचयोर्भुजशीर्षयोः ॥ १२११॥ ललितं चालनं तिर्यतज्ज्ञाः माहुरुरोङ्गणम् ।
इत्युरोङ्गणम् (५) घसकः स्यात्सुललितं स्तनाधोनमनं लयात् ॥ १२१२ ॥
इत्युरोङ्गणम् (६)
(सु०) सूकं लक्षयति-कर्णयोरिति । यत्र लीलावतंसयोः कर्णयोः लसत् हावबहुलं विलम्बन अविलम्बेन वा लयचालनं क्रियते, तत् सूकम् ॥ ॥ -१२१०, १२१०-॥
इति सूकम् (४) (मु०) उरोङ्गणं लक्षयति-विलम्बेनेति । यत्र विलम्बाविलम्बाभ्यां कुचयोः भुजशीर्षयोश्च ललितं चालनं तिर्यक् क्रियते; तद् उरोङ्गणम् ।। ॥ -१२११, १२११- ॥
इत्युरोङ्गणम् (५) (क०) धसकलक्षणे-लयात्स्तनाधोनयनमिति । स्वभावेन स्थिताया नर्तक्यास्ताललयानुकरणक्रमेणैव स्थित्वा हस्वीभाव इत्यर्थः । शिष्टं स्पष्टम् ॥ -१२११–१२१५ ॥
इति घसकः (६) इति दश लास्याङ्गानि ।
(सु०) धसकं लक्षयति-धसक इति । सुललितं स्तनाधोनमनं धसक इत्युच्यते ॥ -१२१२ ॥
इति पसः (१)
Scanned by Gitarth Ganga Research Institute