SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः चालिः सा शैध्यसांमुख्यमाया चालिवडो भवेत् । इति चालिवडः (२) सुकुमारं तिरश्चीनं विलासरसिकं च यत् ॥ १२०९ ।। युगपत्कटिबाहूनां चालनं सा लढिर्मतः । ___इति लढिः (३) कर्णयोविबहुलं लसल्लीलावतंसयोः ॥ १२१० ॥ विलम्वेनाविलम्बेन सूकं तल्लयचालनम् । इति सूकम् (४) (सु०) चालिवडं लक्षयति-सेति । शीघ्रसांमुख्यप्राया सा चालिरेव चालिवडः ॥ -१२०८ ॥ इति चालिवड: (२) (क०) लढिलक्षणे-कटिवाहूनामिति । कटिश्च बाहू च कटिबाहव इति बहुप्रकृतिको द्वन्द्वः । प्रतिपार्श्व कटिबाहोरेव चालनं लढिरित्यर्थः ॥ -१२०९, १२०९- ॥ इति लढिः (३) (सु०) लढिं लक्षयति-सुकुमारमिति । सुकुमारं तिरश्चीनं यद् विलासरसिकं युगपत् कटिबाहूनां चालनं क्रियते ; सा लढिः ॥ -१२०९, १२०९-॥ ___ इनि लढिः (३) (क०) सूकलक्षणे-हावबहुलमिति । हावो नाम स्त्रीणां विलासविशेषः । यथोक्तं भावप्रकाशे " हेलाहेतुः स शृङ्गारो भावात्किंचित्प्रकर्षवान् । सग्रीवारेचको हावो नासाक्षिभूविकासकृत्" ॥ इति । तेन हावेन प्रचुरम् ।। -१२१०, १२११- ॥ इति सूकम् (१) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy