SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३६० संगीतरत्नाकरः चालिश्चालिवडश्चाथ लढिः सूकमुरोङ्गणम् । धसकश्चाङ्गहारः स्यादोयारो विहसी मनः ॥ १२०६ ॥ लास्याङ्गानि दशैतानि देश्यां देशीविदो विदुः । कोमलं सविलासं च मधुरं ताललास्ययुक् ।। १२०७ ॥ नातिद्रुतं नातिमन्दं व्यश्रताप्रचुरं तथा । पादोरुकटिबाहूनां योगपद्येन चालनम् ।। १२०८ ॥ इति चालि: (१) दक्षिण आक्षिप्तः, वामोऽतिकान्तः, ऊरूवृत्तः, अलातश्च ; ततो दक्षिणः पार्श्वक्रान्तः, वामः सूची, पुनर्दक्षिणोऽपक्रान्तः, वामोऽतिक्रान्तश्च भवति; तत् ललितम् ॥ -१२०२-१२०५ ॥ इति ललितम् (१०) इति दशाकाशिकमण्डलानि । इति मण्डललक्षणम् । (क०) अथ देशीलास्याङ्गानि लक्षयितुं तान्युद्दिशति-चालिशालिवड इत्यादि । चालिवडस्य लक्षणांशे-सांमुख्यपायेति । मध्यलयव्यश्रताभ्यां प्रचुरो भवति । इतरत्तु द्वयोरपि समानमित्यर्थः ॥ १२०६-१२०८ ॥ ___ इति चालिः (१) (सु.) अथ लास्याङ्गानि लक्षयति-चालिरिति । चाल्यादीनि दश लास्याङ्गानि भवन्ति । यथा-चालिः, चालिवडः, लढिः, सूकम् , उरोङ्गणम् , धसकः, अङ्गहार: ओयारः, विहसी, मन इति । तेषां क्रमेण लक्षणमाहकोमलमिति । यत्र कोमलं सविलासतालसाम्ययुक्तं मधुरं नातिद्रुतं नातिमन्दं त्र्यश्रताप्रचुरं, यौगपद्येन पादोरुकटिबाहुचलनं क्रियते, सा चालिः ॥ ॥ १२०६-१२०८ ॥ इति चालि: (१) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy