SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ म नर्तनाध्यायः ३५७ सूच्यङ्घ्रिर्दक्षिणो वामस्त्वपक्रान्तोऽथ दक्षिणः ।। ११८८ । दण्डपादोऽथ सूची स्याद्वामो भ्रमरकच सः । पार्श्वक्रान्तो दक्षिणः स्यादाक्षिप्तो दक्षिणेतरः ।। ११८९ ॥ दक्षिणो दण्डपादः स्याद्वरूद्वत्तोऽप्यनन्तरम् । वामश्च सूची भ्रमरोऽलातश्च क्रमतो भवेत् ।। ११९० ॥ पार्श्वक्रान्तो दक्षिणः स्याद्वामोऽतिक्रान्ततां व्रजेत् । यत्र तद्वामविद्धाख्यं मण्डलं शार्ङ्गिणोदितम् ।। ११९१ ॥ इति वाम विद्धम् (६) दक्षिणो जनितोऽङ्घ्रिः स्यादूरूद्द्वृत्तश्च विच्यवः । ततः सप्तस्थितावर्तोद्वयावर्तोदित भेदभाक् ।। ११९२ ॥ स्पन्दितो वामपादः स्यात्पार्श्वक्रान्तस्तु दक्षिणः । भुजङ्गत्रासितो वामोऽतिक्रान्तो दक्षिणो भवेत् ॥ ११९३ ॥ उद्वृत्तश्चैव वामस्तु स्यादलातोऽथ दक्षिणः । पार्श्वक्रान्तोऽथवा सूची वामो विक्षिप्य दक्षिणम् ॥ ११९४ ॥ वामपक्रान्ततां नीतस्तद्विचित्रं प्रचक्षते । इति विचित्रम् (७) (सु०) वामविद्धं लक्षयति -- सूच्यङ्घ्रिरिति । यत्र दक्षिणः सूची, वामस्त्वपक्रान्तः, दक्षिणो दण्डपादः, वामः सूची भ्रमरश्व, दक्षिणः पार्श्व - क्रान्तः, वाम आक्षिप्तः, दक्षिणो दण्डपादः ऊरूवृत्तश्च वामः सूची, भ्रमरोऽलातश्च क्रमशो भवेत् । पुनर्दक्षिणः पार्श्वक्रान्तः, वामोऽतिक्रान्तो भवति ; तद् वाम विद्धम् ॥ - १९८८ - ११९१ ॥ इति वामविद्धम् (६) (सु० ) विचित्रं लक्षयति - दक्षिण इति । यत्र दक्षिणश्चरणो जनितः, Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy