SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३५६ संगीतरत्नाकरः ऊर्ध्वजानुस्तथा सूची दक्षिणश्वरणः क्रमात् ॥ ११८२ ॥ । वामपादस्त्वपक्रान्तः पार्थक्रान्तस्तु दक्षिणः । क्रमात्सूची भ्रमरको वामः पादोऽथ दक्षिणः ॥ ११८३ ॥ पार्थक्रान्तस्ततो वामोऽतिक्रान्तो दक्षिणः पुनः । सूच्यपक्रान्तको वामः पार्थक्रान्तोऽपरस्ततः ।। ११८३ ॥ स्याद्वामाघिरतिक्रान्तश्चरणद्वितयी ततः। स्याच्छिन्नकरणोक्ता चेद्वामाविरचितं श्रिता ॥ ११८५ ॥ बाह्यभ्रमरकं विद्यात्तदा ललितसंचरम् । इति ललितसंचरम् (४) दक्षिणवरणः सूची भ्रमरश्च भवेत्ततः ॥ ११८६ ॥ पार्थक्रान्तोऽथ वामाधिरपक्रान्तोऽथ दक्षिणः । सूची वामस्त्वपक्रान्तः पार्थक्रान्तस्तु दक्षिणः ॥ ११८७ ॥ यत्र तन्मण्डलं प्रोक्तं सूचीविद्धं पुरातनैः । इति सूचीविद्धम् (५) (सू०) ललितसंचरं लक्षयति-ऊर्ध्वजानुरिति । यत्र दक्षिण ऊर्ध्वजानुः, सूची च, वामोऽपक्रान्त:, पार्श्वक्रान्तः, वामोऽतिक्रान्तः, पुनर्दक्षिणः सूची, अपक्रान्तश्च, वामः पार्श्वक्रान्तः, अतिक्रान्तश्च ; पादद्वये छिनकरणं, वामपादरचितं बाह्यभ्रमरकं च वर्तते । तत् ललितसंचरम् ॥-१९८२-१९८५-॥ इति ललितसंचरम् (४) (सु०) सूचीविद्धं लक्षयति-दक्षिण इति । यत्र दक्षिणः सूची भ्रमरश्च; वाम: पार्श्वक्रान्त: अपक्रान्तश्च ; अथ दक्षिणः सूची, वामस्त्वपक्रान्तः, दक्षिणस्तु पार्श्वक्रान्तो भवति ; तत् सूचीविद्धम् ।। -१९८६, १९८७- ॥ इति सूचीविद्धम् (५) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy