________________
सप्तमौ नर्तनाध्यायः दक्षिणो जनितो भूत्वा दण्डपादो भवेदय ॥ ११७७ ॥ सूची च भ्रमरो वाम उत्तो दक्षिणस्ततः । अलातो वामचरणः पार्थक्रान्तस्तु दक्षिणः ॥ ११७८ ॥ भुजङ्गत्रासितश्चासौ वामोऽतिकान्ततां गतः । दक्षिणो दण्डपादोऽथ सूची च भ्रमरोऽपरः ॥ ११७९ ॥ यत्र तद्दण्डपादाख्यं मण्डलं भणितं बुधैः ।
इति दण्डपादम् (२) दक्षिणः सूच्यपक्रान्तो वामोऽध्रिदक्षिणस्ततः ॥ ११८० ॥ पार्थक्रान्तस्तथा वामः समन्तान्मण्डलभ्रमः । सूची यत्राथ वामः स्यादपक्रान्तस्तु दक्षिणः ॥ ११८१॥ तदुक्तं कृतिभिः क्रान्तं स्वभावगतिगोचरम् ।
____ इति क्रान्तम् (३)
(सु०) दण्डपादं लक्षयति-दक्षिण इति । यत्र दक्षिणो जनितो भूत्वा, तत: दण्डपादो भवेत् , वामः सूची भ्रमरश्च भवति । ततो दक्षिण उवृत्तो भवति । वामोऽलातः, दक्षिणस्तु पार्श्वक्रान्तः, भुजङ्गत्रासितश्च । पुनर्वामोऽतिकान्त:, दक्षिणो दण्डपादः, अथ अपरो वाम: सूची, भ्रमरश्च भवति ; तद् दण्डपादम् ॥ -११७७-११७९-॥
इति दरुडपादम् (२) (सु०) क्रान्सं लक्षयति-दक्षिण इति । यत्र दक्षिणः सूची, वामोऽपक्रान्तः, पुनर्दक्षिणः पार्श्वक्रान्तः, वामः समन्तात् मण्डलभ्रान्तः, सूची वा, पुनर्दक्षिणोऽपक्रान्तश्च भववि ; तद् स्वभावगतिगोचरं क्रान्तं भवति ॥ ॥ -१९८०-१९८१-॥
इति क्रान्तम् (३)
Scanned by Gitarth Ganga Research Institute