SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३५४ संगीतरत्नाकरः चरणैश्चाषगतिभिः समस्तैर्मण्डलभ्रमम् । अन्ते दधच्चापगतं नियुद्धविषयं भवेत् ॥ ११७३ ।। इति चाषगतम् (१०) ____ इति दश भौममण्डलानि । जनितः शकटास्यश्च दक्षिणश्चरणः क्रमात् । वामोऽलातो दक्षिणस्तु पार्थक्रान्तस्ततोऽपरः ॥ ११७४ ॥ सूची स एव भ्रमर उट्टत्तो दक्षिणो भवेत् । वामस्त्वलातको वाड्री छिन्नाख्यकरणाश्रयौ ॥ ११७५ ॥ बाह्यभ्रमरकं यत्र वामाङ्गं रेचितं भवेत् । अतिक्रान्तस्ततो वामो दण्डपादस्तु दक्षिणः ॥ ११७६ ॥ अवोचत्तदतिक्रान्तं मण्डलं शंकरप्रियः । __इत्यतिक्रान्तम् (१) (सु०) चाषगतं लक्षयति-चरणैरिति । यत्र समस्तैः चरणैः चाषगतिभिः मण्डलभ्रमणम्, अन्ते चाषगतिश्च भवति; तत् चाषगतम् । तच्च मुष्टियुद्धे प्रयोज्यम् ॥ ११७३ ॥ इति चाषगत्तम् (१०) इति दश भौममण्डलानि । (सु०) आकाशिकेष्वतिक्रान्तं लक्षयति-जनित इति । यत्र दक्षिणश्चरणः क्रमात् जनितः, शकटास्यश्च, वामोऽलात:, दक्षिणस्तु पार्श्वक्रान्त:, ततः सूची भ्रमर उद्वृत्तश्च, ततो वामोऽलातः, पादद्वयं छिन्नाख्यकरणयुक्तं वामाङ्गकृतं बाह्यभ्रमरकं यत्र रेचितं भवेत् । तत: वामोऽतिक्रान्तः, दक्षिणस्तु दण्डपादो भवति ; तद् अतिक्रान्तम् ॥ ११७४-११७६- ॥ इत्यातिकान्तम् (१) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy