________________
३५३
सप्तमो नर्तनाध्यायः भूयुक्तैश्चरणैः सूचीविद्धं करणमाश्रितैः । सूचीविद्धाभिधे चावेडकाक्रीडितैरय ॥ ११६९ ॥ संपूर्णैमरैः प्राग्वत्सूचीविद्धाधिभिस्ततः । आक्षिप्तैर्मण्डलभ्रान्त्या दिक्चतुष्टययुक्तया ॥ ११७० ॥ अन्ते रचितया ज्ञेयमेडकाक्रीडिताहयम् ।
इत्येलकाक्रीडितम् (८) सूची दक्षिणपादः स्याद्वामोऽपकान्तकस्ततः ॥ ११७१ ॥ सन्यवामौ च बहुशो भुजङ्गत्रासितौ क्रमात् । यत्रान्ते मण्डलभ्रान्तिः पिष्टकुटुं तदुच्यते ॥ ११७२ ।।
इति पिष्टकुटम् (९)
वामस्तु अडितोक्तभेदचतुष्टयवान् , अध्यर्धकश्च । पुनर्दक्षिणः शकटास्यः, अन्ते दिक्चतुष्टये मण्डलभ्रमणं च भवति ; तद् अर्ध्यर्धम् ॥ ११६७, ११६८॥
___ इत्यध्यर्थम् (७) (सु०) एडकाक्रीडितं लक्षयति-भूयुक्तैरिति । यत्र भूसङ्गतैः सूचीविद्धकरणसङ्गतैः सूचीविद्धाख्यचार्याश्रितैः, ततो भ्रमरैः पादैः, तत आक्षिप्तैः सूचीविद्धाङ्घिभिश्च दिक्चतुष्टये मण्डलभ्रान्त्या अन्ते रेचितया च एडकाक्रीडितं भवति ॥ ११६९, ११७०- ॥
इत्येडकाक्रीडितम् (८) (सु०) पिष्टकुटुं लक्षयति-सूचीति । यत्र दक्षिणः सूची, वामोऽपक्रान्त:, सव्यवामौ क्रमाद् बहुशो भुजङ्गत्रासितौ, अन्ते मण्डलभ्रान्तिश्च भवति ; तत् पिष्टकुट्टम् ॥ -११७१, ११७२ ॥
इति पिटकुटम् (९).
Scanned by Gitarth Ganga Research Institute