SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३५२ संगीतरत्नाकर: स्थानेन समपादेन स्थित्वा हस्तौ प्रसारयेत् । निरन्तरावूर्ध्व कृतावावेष्टयोद्वेष्टय च क्षिपेत् ॥ ११६४ ॥ कटीतटे ततः पादौ भ्रामयेदक्षिणे ततः । क्रमेणानन्तरं वामं पुनः पादं प्रसारयेत् || १९६५ ॥ एवं भ्रान्त्वा क्रमाद्यत्र मण्डलभ्रमणं भवेत् । चतुर्दिकं तदाख्यातं समोत्सरितसंज्ञकम् ।। ११६६ ॥ इति समोत्सरितम् (६) क्रमेण दक्षिणः पादो जनित: स्पन्दितस्ततः । अड्डितोक्ता चतुर्भेदा वामस्याध्यधिकादिका ।। ११६७ ॥ दक्षिणः शकटास्यः स्याद्यत्रान्ते दिक्चतुष्टये | मण्डलभ्रमणं तत्तु नियुद्धेऽध्यर्धमण्डलम् ।। ११६८ ॥ इत्यध्यर्धम् (७) वामः स्पन्दितो भूत्वा, भूतटे आस्फोटनं कुरुते ; तत् अडितम् ॥ ११६०११६३ ॥ इत्यडितम् ( ५ ) (सु० ) समोत्सरितं लक्षयति-स्थानेनेति । यत्र समपादस्थानेन स्थित्वा हस्तौ प्रसार्य, ऊर्ध्वकल्पितौ निरन्तरौ तावेव आवेष्ट्य, उद्वेष्टय च कटीतटे क्षिप्येते; ततो दक्षिणवामपादौ क्रमेण भ्राम्येते, ततो वामपादः प्रसार्यते । एवं भ्रान्त्वा दिक्चतुष्टयेऽपि मण्डलभ्रमणं क्रियते ; तत् समोत्सरितम् ॥ ११६४-१९६६ ॥ इति समोत्सरितम् (६) (सु० ) अध्यर्धे लक्षयति - क्रमेणेति । यत्र दक्षिणो जनितः, स्पन्दितश्च, Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy