________________
सप्तमो नर्तनाध्यायः जनितः सप्तपूर्वोक्तस्थितावादिभेदभाक् । क्रमेण शकटास्यश्च दक्षिणः स्पन्दितोऽपरः ॥ ११५८ ।। शकटास्यस्ततः पादो यावन्मण्डलपूरणम् । क्रमेण यत्र तज्ज्ञेयं शकटास्याभिधं बुधैः ॥ ११५९ ॥
___इति शकटास्यम (१) उद्घट्टितस्ततो बद्धः समोत्सरितपूर्वकः । मत्तल्लिरर्धमत्तल्लिरपक्रान्तश्च दक्षिणः ॥ ११६० ॥ उत्तो विद्युद्धान्तश्च भ्रमरः स्पन्दितश्च सः । वामस्तु शकटास्योऽन्यो द्विः स्याचापगतिस्ततः॥ ११६१ ॥ वामोऽडितोऽभ्यधिकस्तु क्रमाच्चापगतिः परः। समोत्सरितमत्तल्लिमत्तल्लिभ्रमरस्तथा ॥ ११६२ ॥ वामोऽथ स्पन्दितो भूत्वा भूतटास्फोटनं यदा । कुरुते पक्षिणः प्राहुरडितं मण्डलं तदा ॥ ११६३ ॥
इत्यङ्गितम् (५)
(सु०) शकटास्यं लक्षयति-जनित इति । यत्र प्रथममावतोंक्ताः सप्त भेदाः, ततो दक्षिणः शकटास्यः, वामः स्पन्दितः, पुनर्दक्षिणः शकटास्यो भवति । तत् शकटास्यम् ॥ ११५८, ११५९- ॥
इति शकटास्यम् (४) (सु०) अद्वितं लक्षयति-उद्घट्टित इति । यत्र दक्षिण उद्घट्टितः, ततो बद्धः, समोत्सरितमत्तलिः, अर्धमत्तल्लिः, अपक्रान्तश्च, वामस्तु उद्वृत्तः, विद्युद्भ्रान्तः, भ्रमरः, स्पन्दितश्च ; पुनर्दक्षिणः शकटास्यः, चाषगतिश्च, वामोऽद्वितः अध्यर्धकश्व, पुनर्दक्षिणश्चाषगतिः, समोत्सरितमत्तल्लिः, मत्तल्लिः, भ्रमरश्च भवति ।
Scanned by Gitarth Ganga Research Institute