SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३५० संगीतरत्नाकरः वामो वाध्यधिकीभूय भ्रमरौ दक्षिणः पुनः ॥ ११५२ ॥ स्पन्दितः शकटास्यस्तु वामस्तेनैव भूतलम् । स्फुटमास्फोटितं धीरैस्तदास्कन्दितमिष्यते ॥ ११५३ ॥ इत्यास्कन्दितम् (२) दक्षिणो जनितो वामः स्थितावर्तस्ततः परम् । शकटास्यो भवेत्पश्चादेडकाक्रीडिताहयः ॥ ११५४ ॥ उरूद्वत्तोऽड्डितचारी जनितामाश्रितस्ततः । समोत्सरितमत्तल्लिः क्रमादङ्घ्रिस्तु दक्षिणः ।। ११५५ ॥ शकटास्यः क्रमादूरूवृत्तश्च स्यादथेतरः। पादचापगतिःि स्यादक्षिणः स्पन्दितस्ततः ॥ ११५६ ॥ वामाज्रिः शकटास्यः स्यादन्योऽधिभ्रमरस्ततः । वामश्चाषगतिर्यत्र तदावर्तमवादिषुः ॥ ११५७ ॥ इत्यावर्तम् (३) वामोऽडितः, पुनर्दक्षिणो भ्रमरः, वामोऽडितः, पुनर्दक्षिणः शकटास्यतामासाद्य, ऊरूवृत्तः, वामोऽध्यर्धकतामासाद्य भ्रमरः, पुनर्दक्षिण: स्पन्दितः, वामस्तु शकटास्यश्च भवति । अन्ते तादृशेन वामहस्तेन भूतलं स्फुटमास्फोव्यते च; तद् आस्कन्दितम् ॥ -११५१-११५३ ॥ इत्यास्कन्दितम् (२) (सु०) आवतै लक्षयति-दक्षिण इति । यत्र दक्षिणो जनितः, वामः स्थितावर्तः, तत: शकटास्यः, तत एडकाक्रीडितः, तत ऊरूवृत्तः, ततोऽडितः, ततो जनितश्च भवति । पुनर्दक्षिणः क्रमात् शकटास्यः, ऊरूवृत्तश्च, पुनर्वामः चाषगतिः, पुनर्दक्षिणः द्वि:स्पन्दितः, वामः शकटास्यः, पुनर्दक्षिणो द्विर्धमरः, वामश्चाषगतिश्च भवति ; तद् आवर्तम् ॥ ११९४-११५७- ॥ इत्यावर्तम् (३) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy