________________
३४९
सप्तमो नर्तनाध्याय: दक्षिणो जनितो वामः स्पन्दितो दक्षिणः पुनः । शकटास्यस्तथा वामः पादोऽवस्पन्दितोऽथवा ॥ ११४९ ॥ दक्षिणो भ्रमरो वामः स्यन्दितोऽघ्रिरथेतरः । शकटास्यश्चाषगतिर्वामोऽन्यो भ्रमरो भवेत् ॥ ११५० ॥ वामान्ते स्पन्दितो यत्र तदूचे भ्रमरं बुधैः।
इति भ्रमरम् (१) दक्षिणो भ्रमरो वामोऽडितोऽथ भ्रमरः स चेत् ॥ ११५१ ॥ दक्षिणः शकटास्यत्वं गत्वोरुत्ततां गतः ।
(सु०) आकाशिकस्य भेदानाह-अतिक्रान्तमिति । अतिक्रान्तम् , दण्डपादम् , क्रान्तम् , ललितसंचरम् , सूचीविद्धम् , वामविद्धम् , विचित्रम् , विहृतम् , अलातम् , ललितमित्याकाशमण्डलानि दश । भौमाकाशिकानां चारीणां प्राचुर्यात् मण्डलान्यपि भौमानि आकाशिकानीति व्यपदेशः । एतेषां विनियोगस्तु शस्त्रमोक्षणे विज्ञेयः । नभोभवानां युद्धपरिक्रमे प्राधान्यं बोध्यम् , मण्डलचारीणां न्यूनताधिक्ये न दोषाय ॥ ११४३-११४८ ॥
(क०) मण्डलानां लक्षणानि ग्रन्थत एव सुबोधानि ॥ -११४९, ११७३ ॥
(सु०) भ्रमरं लक्षयति-दक्षिण इति । यत्र दक्षिणः पादो जनितः, वामपाद: स्पन्दितः, पुनर्दक्षिणः शकटास्यः, पुनर्वामः स्पन्दितः ; यद्वा दक्षिणो भ्रमरः, वाम: स्पन्दितः, पुनर्दक्षिणः शकटास्यः, पुनर्वाम: चाषगतिः, पुनर्दक्षिणो भ्रमरः, अन्ते वामः स्पन्दितश्च भवति । तद् भ्रमरमित्युच्यते ॥ ॥ ११४९-११५०-॥
___ इति भ्रमरम् (१) (सु०) आस्कन्दितं लक्षयति-दक्षिण इति । यत्र दक्षिणो भ्रमरः,
Scanned by Gitarth Ganga Research Institute