________________
३४८
संगीतरत्नाकरः भ्रमरास्कन्दितावर्तशकटास्यानि चाडितम् । समोत्सरितमध्यर्धमेडकाक्रीडितं ततः ॥ ११४३ ॥ पिष्टकुटुं चापगतं भौमानीति दशावदन् । अतिक्रान्तं दण्डपादं क्रान्तं ललितसंचरम् ॥ ११४४ ॥ सूचीविद्धं वामविद्धं विचित्रं विहृतं ततः । अलातं ललितं चेति व्योमजानि दशाब्रुवन् ॥ ११४५ ।। भौमाकाशिकचारीणां प्राचुर्यान्मण्डलान्यपि । भौमान्याकाशिकानीति व्यपदेशं प्रपेदिरे ॥ ११४६ ॥ एतेषां विनियोगश्च विज्ञेयः शस्त्रमोक्षणे । नभोभवानां प्राधान्यं बोध्यं युद्धपरिक्रमे ॥ ११४७ ॥ चारीनाम्नात्र चरणं वक्ष्ये चारीविवक्षया । चारीणां न्यूनताधिक्यं न दूषयति मण्डलम् ।। ११४८ ।।
(सु०) प्रसङ्गान्मण्डलानां सामान्यलक्षणमाह-चारीति । चारीविशेषो मण्डलम् । तद् द्विविधम् । भौमम् , आकाशिकं चेति । भौमचारीप्राधान्ये भौमम् ; आकाशचारीप्राचुर्य आकाशिकम् । तत्र भौमस्य भेदानाह-भ्रमरेति । भ्रमरम् , आस्कन्दितम् , आवर्तम् , शकटास्यम् , अड्डितम् , समोत्सरितम् , अध्यर्धम् , एडकाक्रीडितम्, पिष्टकुटम् , चाषगतमिति भौममण्डलानि दश ॥ ११४२ ॥
(क०) तद्भेदान्दर्शयति-भ्रमरास्कन्दितेत्यादि। चारीणां न्यूनताधिक्यं न दृषयति मण्डलमिति । चतुरश्रव्यश्रमितेष्वङ्गहारेषु करणानां न्यूनताधिक्यमिव चतुरश्रव्यश्रमानमितेषु मण्डलेषु चारीणां न्यूनताधिक्यं मण्डलं न दूषयति । तत्राङ्गहारेषु यथा रेचकैः पूरणं कृतं तथात्रापि मण्डलेषु पादरेचकैश्चारीसंख्यापूरणे कृते सति चतुरश्रव्यश्रत्वयोः संभवाददोष इति भावः ॥ -११४३-११४८- ॥
Scanned by Gitarth Ganga Research Institute