________________
सप्तमो नर्तनाध्यायः महारपातनं चात्र वक्षस्थलगतं मतम् । कैशिके स्याद्भारतवच्छत्रपातस्तु मूर्धनि ॥ ११३८ ॥ शक्तिकुन्तादिशस्त्राणि धनुर्वजादिकान्यपि । न्यायेष्वेषु प्रयुञ्जीत सौष्ठवेन समन्वितः ॥ ११३९ ॥ प्रविचारा न शोभन्ते सौष्ठवेन विना कृताः। संज्ञामात्रेण कर्तव्यः प्रहारो न तु वास्तवः ॥११४०॥ मायेन्द्रजालैरथवा पहारमिव दर्शयेत् । एते न्यायाः प्रयोक्तव्याचारीभिः शस्त्रमोक्षणे ॥ ११४१ ॥
इति न्यायलक्षणम् । चारीचयविशेषः प्राङ्मण्डलं प्रतिपादितम् । तद्भेदानधुना धीमान्वक्ति श्रीकरणाग्रणीः ॥ ११४२ ॥
(क०) नर्तने न्यायोपयोगमाह-शक्तिकुन्तेत्यादि । प्रहारमिवेति। यथा वास्तवः प्रहारो न भवति, तथा कुर्यादित्यर्थः ॥ ११३९-११४१॥
इति न्यायलक्षणम् । (सु०) न्यायोपयोगमाह-शक्तीति । अत्र न्यायेषु शक्तिकुन्तधनुर्वजादीनि ससौष्ठवः सन् प्रयुञ्जीत । संज्ञामात्रेण प्रहारः कार्यः । न तु वास्तवः । अथवा मायेन्द्रजालैः प्रहारमिव दर्शयेत् । एते न्यायाः चारिभिः शस्त्रमोक्षणे प्रयोज्याः ॥ ११३९-११४१ ॥
___ इति न्यायलक्षणम् । (क०) उद्देशक्रमेण मण्डलानि लक्षयिष्यन् पूर्व चारीणां लक्षणावसरे प्रसङ्गादुक्तं तत्सामान्यलक्षणमनुस्मारयति-चारीचयविशेषः प्राङ्मण्डलं प्रतिपादितमिति । चारीचयविशेष इति । मण्डलखण्डकैस्त्रिभिश्चतुर्भिर्वेति पूर्वोक्तमित्यर्थः ॥ ११४२ ॥
Scanned by Gitarth Ganga Research Institute