________________
संगीतरत्नाकरः फलकं वामहस्तेन खङ्ग दक्षिणपाणिना । गृहीत्वापसृतौ कृत्वा करावाक्षिप्य तौ ततः ।। ११३२॥ फलकभ्रामणं कृत्वा पार्श्वयोरुभयोरथ । परितः शिरसः शस्त्रं भ्रामयित्वा तु खड्गिनम् ॥ ११३३ ॥ करं शिरःकपोलान्तरुद्वेष्टय मणिबन्धतः । फलकस्याप्युपशिरः परिभ्रमणमाचरेत् ॥ ११३४ ॥ विधिरेष सकृत्कटयां शस्त्रपातश्च भारते । सात्वतेऽप्येवमेव स्याच्छवभ्रान्तिस्तु पृष्ठतः ॥ ११३५ ।। कर्तव्यः शस्त्रपातस्तु पादयोरिह तद्विदा । प्रविचारः सात्वतवद्वार्षगण्ये विधीयते ॥ ११३६ ॥ पृष्ठतः फलकस्यापि भ्रमणं स्यादिहाधिकम् । स्कन्धे वक्षसि वा शस्त्रहस्तस्योद्वेष्टनं तथा ॥ ११३७ ॥
(सु०) तेषां लक्षणसिध्यर्थं प्रविचार: कथ्यते-या इति । प्रकृष्टा विचित्राश्च गतयः प्रविचारा इत्युच्यन्ते । वामहस्तेन फलकं, दक्षिणहस्तेन खडगं गृहीत्वा प्रसृतौ हस्तौ कृत्वा, तौ आक्षिप्य पार्श्वद्वयेऽपि फलकभ्रमणं कृत्वा शिरसः परितः शस्त्रं भ्रामयित्वा, खड्गिनं हस्तं शिरः कपोलान्ते उद्वेष्टय शिर:समीपे फलकभ्रमणं कुर्यात् । एष विधि: भारते कठ्यां सकृच्छत्रपातश्च भवति । सात्त्वतेऽप्येवमेव । शस्त्रभ्रमणं तु पृष्ठतः कार्यम् | पादयोः शस्त्रपातः, पृष्ठत: फलकभ्रमणं च वार्षगण्ये कार्यम् । स्कन्धे वक्षसि वा शस्त्रं, शस्त्रोद्वेष्टनं च वक्षःस्थले प्रहारः पातनं चात्र भवति । कैशिके तु भारतवत्सर्वम् । शस्त्रपातस्तु शिरसि बोध्यः ॥ ११३१ ।।
___ (क०) सप्रविचाराणां भारतादीनां पृथक्स्वरूपमाह-फलकं वामहस्तेनेत्यादिना ॥ ११३२-११३८ ॥
Scanned by Gitarth Ganga Research Institute