________________
३४५
सप्तमो नर्तनाध्याय: युद्धे परात्मशस्त्राणां क्रमाद्रक्षणपातने ॥ ११२८ ॥ विधातुमुचिता गात्रवर्तना न्याय उच्यते । भारतः सात्वतो वार्षगण्यः कैशिकसंज्ञकः ।। ११२९ ।। भेदास्तस्येति चत्वारः क्रमाद् वृत्तिचतुष्टये । तेषां लक्षणसिद्धयर्थ प्रविचारान् Qवेऽधुना ।। ११३० ॥ याः प्रकृष्टा विचित्राश्च गतयस्ते परिक्रमाः। त एव प्रविचाराः स्युः शस्त्रमोक्षणगोचराः ॥११३१॥
(क०) अथ वृत्त्यनुषक्तान् सविचारान् न्यायालक्षयितुं न्यायसामान्यलक्षणं तावदाह-युद्ध इत्यादि । परात्मशस्त्राणां क्रमाद्रक्षणपातने इति । परशस्त्राणां रक्षणं नाम शत्रुप्रहरणानि यथा स्वदेहे न निपतन्ति, तथा फलकादिना स्वदेहसंरक्षणमित्यर्थः ; आत्मशस्त्रपातनं नाम शत्रशरीरे स्वप्रहरणानि यथा फलकादिनिवारणं वञ्चयित्वा निपतन्ति, तथा स्वहस्तलाघवादिना शस्त्रपातनम् ; ते विधातुमुचिता नाटयोचितेत्यर्थः । गात्रवर्तना न्याय उच्यत इति संबन्धः । क्रमात्तिचतुष्टय इति । भारत्यां भारतः । सावत्यां सात्वतः । आरभव्यां वार्षगण्यः । वृषगणो नाम कश्चिद्भटवरः । तत्संबन्धादयं व्यपदेशो द्रष्टव्यः। कैशिक्यां कैशिक इति क्रमः ।। ।। -११२८-११३०- ॥
__ (सु०) न्यायलक्षणमाह-युद्धे इति । युद्धे परशस्त्राणां च्यावनपातनविधानोचिता गात्रवर्तना न्यायीत्युच्यते । स चतुर्विधः । भारतः, सात्त्वतः, वार्षगण्यः, कैशिक इति ॥ -११२८, ११३० ॥
(क०) प्रविचाराणां सामान्यस्वरूपमाह-याः प्रकष्टा इत्यादि । शस्त्रमोक्षणगोचरा इति । स्वदेहरक्षणे कर्तव्येऽपि प्रविचाराणां शस्त्रमोक्षणप्रवणत्वमेवेत्यर्थः ॥ ११३१ ॥
Scanned by Gitarth Ganga Research Institute