________________
३४४
संगीतरत्नाकरः
संफेटवार भव्यां यदिति भेदचतुष्टयम् ।
कैशिक्यां यन्मतं नर्म नर्मस्पुञ्जस्तथापरः || १९२४ ॥ नर्मस्फोटो नर्मगर्भति भेदचतुष्टयम् ।
परिचित्ताक्षेपकं च परोपालम्भकं तथा ।। १२२५ ॥ रोषेयसूचकं चेति नर्मभेदास्त्रयश्च ये । सोदाहरणलक्ष्मणस्तेऽमी नाटकगोचराः ।। ११२६ ॥ विस्तरत्रस्तचित्तेन निःशङ्केन न तेनिरे ।
काव्यं गीतं तथा नृत्तं वृत्तिहीनं न शोभते ॥ ११२७ ॥ अतो वृत्तीर्विजानीयादेता भरतभाषिताः । इति वृत्तिलक्षणम् ।
I
त्वारः । कैशिकी भेदानाह — कैशिक्यामिति । कैशिक्यां नर्म, नर्मस्पुअद:, नर्मस्फोटः, नर्मगर्भ इति चत्वारो भेदाः । परचित्ताक्षेपकम्, परोपालम्भकम्, रोषेर्ष्या सूचकमिति नर्मभेदास्त्रयः । एतेषां लक्षणानि विस्तरभीत्या न प्रतिपाद्यते । काव्यगीतनृत्तानि वृत्तिहीनानि न शोभते ॥ - ११२२ - १९२९- ॥
-
(क०) तेषां लक्षणानभिधाने हेतुमाह — सोदाहरणेत्यादिना । नाटकगोचरास्तेऽमी वृत्तिभेदा विस्तरत्रस्तच्चित्तेन निःशङ्केन सोदाहरणलक्ष्माणो न तेनिर इति संबन्धः । तेषां नाटकगोचरत्वेन नृते नातीवोपयोग इति भावः ॥ - ११२६, ११२६- ॥
(क० ) तर्हि नृत्तप्रकरणे वृत्तिकथनं कथमित्यत आह-काव्यं गीतमित्यादि । वृत्तिहीनं न शोभत इति । यद्यपि वृत्तिहीनत्वेन काव्यादीनां न स्वरूपनिष्पत्तिः तथापि निष्पन्नस्य नृत्तादेः शोभातिशयाधानहेतुत्वेन वृत्तीनामप्युपयोगो विद्यत इत्यत्र प्रकरणे तत्कार्यमिति भावः ॥-११२७,११२७-॥ इति वृत्तिलक्षणम् ।
Scanned by Gitarth Ganga Research Institute