SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः ३४३ निःशङ्कः कैशिकीं ब्रूते तां सौन्दर्यैकजीविताम् ॥ १११९ ॥ सौन्दर्य सौकुमार्याभ्यां रौद्रादावप्यसौ भवेत् । आमुखं च प्रहसनं तथा वीथी प्ररोचना ।। ११२० ॥ अंशाः स्युरिति चत्वारो ये भारत्या मुनेर्मताः । उद्घात्यकावलगिते कथोद्घातः प्रवर्तकम् ।। ११२१ ॥ प्रयोगातिशयश्चेति भेदाः पञ्चामुखस्य ये । उत्थापकाभिधो भेदः सात्त्वत्याः परिवर्तकः ।। ११२२ ॥ संलापकश्चतुर्थस्तु यः संघात्यकसंज्ञकः । संक्षिप्तकं चावपातः स्याद्वस्तूत्थापनं तथा ।। ११२३ ।। कैशिकीशब्दो रूढो द्रष्टव्यः । यद्वा केशानां समूहः कैशिकम् । कैशिकवन्मृदुत्वात्सुमनोभिर्विचित्रत्वाच्च कैशिकीयोगोऽपि द्रष्टव्यः ॥ १११८,१११९-॥ (सु०) कैशिकीमाह - वागङ्गेति । वागङ्गाभिनयानां या समप्राधान्यं भवति। या च गीतनृत्ताढ्या, शृङ्गाररसनिर्भरा, सौन्दर्यैकजीविता उल्लद्वृत्ति:, सा कैशिकी। इयं सौन्दर्यसौकुमार्याभ्यां रौद्रादावपि भवति ॥ १११८, १११९-॥ (क० ) अथ भारत्यादीनामवान्तर भेदान्परिगणयति - आमुखं चेत्यादिना ॥ - ११२०-११२५ ॥ इति वृत्तिलक्षणम् । (सु०) भारतीवृत्तेर्भेदानाह - आमुखमिति । आमुखम्, प्रहसनम्, वीथी, प्ररोचनेति । तत्रामुखं पञ्चविधम् । उद्वात्यकम्, अवलगितम्, कथोद्धात', प्रवर्तकः, प्रयोगातिशयश्चेति ॥ - ११२०, ११२१- ॥ (सु०) सात्त्वतेर्भेदानाह— उत्थापकेति । उत्थापकः, परिवर्तकः, संलापकः, संघातक इति सात्त्वतीभेदाश्चत्वारः । आरभटीभेदानाह - संक्षिप्तकमिति । संक्षिप्तकम्, अवपातः, वस्तूत्थापनम्, संफेट इत्यारभव्या भेदाश्व Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy