________________
३४३
संगीतरत्नाकर:
सत्त्वप्रकाशकं यत्स्यात्तद्युक्तं सत्त्वमुच्यते । मनस्तत्प्रभवा हर्षशौर्यत्यागास्तु साचताः ।। १११५ ॥ तत्प्रधाना सात्त्वती स्याद्वीररौद्राद्भुतोत्कटा । हीना शृङ्गारनिर्वेदकरुणैरुद्धताश्रयात् ।। १११६ ॥ आरादुत्साहिनो ये स्युर्भटास्तत्कायसंभवा । भवेदारभटी वृत्ती रौद्रादावुद्धते रसे ॥ १११७ ॥ मायेन्द्रजालबहुला चित्रयुद्धमवर्धिनी । वागङ्गाभिनयानां या सौकुमार्येण निर्मिता ॥ १११८ ॥ उल्लसद्गीतनृत्ताढ्या शृङ्गाररसनिर्भरा ।
(क०) सात्त्वत्या निरुक्तिपूर्वकं लक्षणमाह - सच्चप्रकाशकं यत्स्यादित्यादि । एतेनास्या मनोव्यापारप्रधानत्वं दर्शितं भवति ॥ १११५, १११६ ॥
(सु०) सात्त्वती माह — सत्त्वप्रकाशकमिति । सत्त्वप्रकाशकं यत्, तद्युक्तं सत्त्वं मनः, तद्भवा हर्षशौर्यत्यागादयः सात्त्वताः, तत्प्रधाना वृत्तिः सात्वती । सा च वीररौद्राद्भुतवती शृङ्गारनिर्वेद करुणरहिता भवति ॥ १११५, १११६॥
(क०) अथारभट्या लक्षणं सनिरुक्तिकमाह - आरादित्यादि । तत्कायसंभवात्तेषां भटानां शरीरसंभवेत्यनेन चारभट्याः कार्यव्यापारप्रधानत्वं दर्शितम् ॥ १११७, १११७- ॥
(सु० ) आरभटीमाह - आरादिति । आरात् उत्साहिनो ये भटाः स्युः, तेषां कायसंभवा, शरीरव्यापारजा वृतिः, सा अरभटी । सा च रौद्राद्युद्धतरसोदिता, मायेन्द्रजालबहुला, चित्रयुद्धप्रवर्धिनी च भवति ॥ १११७, १९१७-॥ (क०) अथ कैशिक्या लक्षणमाह - वागङ्गाभिनयानामित्यादि । एतेन कैशिक्यां वाङ्मन: कायव्यापाराणां समप्राधान्यमुक्तं भवति । अत्र
Scanned by Gitarth Ganga Research Institute