________________
सप्तमो नर्तनाध्यायः
चतुर्विधेति विज्ञेया तासामुत्पत्तिरुच्यते ॥ १११२ ॥ ऋग्वेदाद्भारती जाता यजुर्वेदात्तु सात्त्वती । अथर्वणादारभटी सामवेदात्तु कैशिकी ।। १११३ ॥ वृत्तिः संस्कृतवाक्यैकप्रधाना भरतैर्नृभिः । प्रयुज्यमाना वाग्वृत्तिः प्राधान्याद्भारती मता ।। १११४ ॥
३४१
तं प्रत्यासामुपयोगाभावात् । तेषु धर्मादिषूपयोगोऽस्या अस्तीति पुरुषार्थोपयोगिनीत्युक्तम् । चेष्टा ; व्यापारो वृतिरुच्यते । सा वृत्तिर्भास्तीत्यादिभेदेन चतुर्विधेति विज्ञेयेति संबन्धः । तासां ऋगादिवेदेभ्य उत्पत्तिं दर्शयतितासामिति ॥ - ११११-१११३- ॥
(सु० ) अथ क्रमप्राप्ता वृत्तीर्लक्षयति--- वाङ्मनः कायजेति । वाङ्मन:कायजा ; वाङ्मन: कायभवा, पुरुषार्थोपयुक्ता चेष्टा व्यापारो वृत्तिरिति कथ्यते । सा; वृत्तिः, चतुर्विधा - भारती, सात्त्वती, आरभटी, कैशिकीति । वृत्तीनामुत्पत्तिमाह — तासामिति । ऋग्वेदात् भारती जाता ; यजुर्वेदात्तु सात्त्वती जाता ; अथर्वणात् आरभटी जाता ; सामवेदात्तु कैशिकी जातेति ॥-११११-१११३-॥
(क०) तत्र च भारतीं वृत्तिं लक्षयति- वृत्तिः संस्कृतेत्यादि । संस्कृतवाक्यमेव प्रधानं यस्याः सा तथोक्ता । अत्र वाग्व्यापारस्यैकस्य प्राधान्यम् । मनः कायव्यापारयोस्त्वप्राधान्य मित्यर्थः । अत एव वाग्वृत्तिरित्युच्यते । भरतैर्नृभिः प्राधान्यात्प्रयुज्यमानेति भारतीशब्दस्य व्युत्पत्ति - दर्शिता । नाटकार्थाभिनेतारः सूत्रधारादयो भरता इत्युच्यन्ते ॥ १११४ ॥
( सु० ) तत्र भारतीमाह -- वृत्तिरिति । वृत्तिः ; भारतीवृत्ति:, संस्कृतवाक्यप्रधाना; अत एव भरतैः नृभिः प्राधान्यात् प्रयुज्यमाना भवति । अत्र भरतशब्देन नाटकाभिनेतारः सूत्रधारादयो विवक्षिताः ॥ १११४ ॥
Scanned by Gitarth Ganga Research Institute