________________
३४०
संगीतरत्नाकर:
स्कन्धन्यस्तशिरः सुप्तं कूर्पराधिष्ठितक्षिति ।। ११०९ ॥ यत्तदुद्वाहितं प्रोक्तं लीलयावस्थितौ प्रभोः ।
इत्युद्वाहितम् (५)
ईषत्प्रसृतजङ्घ यत्सुप्तं स्रस्तकरद्वयम् ॥ १११० ॥ तन्नतं स्थानकं खेदश्रमालस्यादिषु स्मृतम् ।
इति नतम् (६)
इति षट्सुप्तस्थानकानि । इत्येकपञ्चाशत्स्थानप्रकरणम् ।
वाङ्मनःकायजा चेष्टा पुरुषार्थोपयोगिनी ॥ ११११ ॥ वृत्तिः सा भारती सान्त्व त्यारभव्यथ कैशिकी |
(सु०) उद्वाहितं लक्षयति-स्कन्धन्यस्तेति । यत्र स्कन्धन्यस्तशिरः कूर्परप्राप्तभूतलं सुप्तम्, तद् उद्वाहितम् । तच लीलया अवस्थितौ प्रभोः पुरतः प्रयोज्यम् ॥ - ११०९, ११०९-॥
इत्युद्रा हितम् (५)
(सु० ) नतं लक्षयति - ईषदिति । यत्र ईषत् प्रसृतजङ्घम्, त्रस्तकरद्वयं यत् सुप्तम् ; तद् नतम् | तच्च खेदश्रमालस्यादिषु प्रयोज्यम् ॥ १११०,१११० - ॥ इति नतम् (६)
इति षट् सुप्तस्थानकानि । इत्येकपञ्चाशत्स्थानप्रकरणम् ।
(क०) अथोद्देशक्रमेण वृत्तीर्लक्षयितुं तासां सामान्यलक्षणमाहवाङ्मन: कायजेत्यादि । वाङ्मनः कायेभ्यो जायत इति तथोक्ता । पुरुषार्थोपयोगिनी; अत्र पुरुषार्थशब्देन धर्मार्थकामा गृह्यन्ते, न मोक्षः
;
Scanned by Gitarth Ganga Research Institute