________________
३५८
संगीतरत्नाकरः दक्षिणो विच्यवो भूत्वा स्पन्दितोऽनन्तरं भवेत् ॥ ११९५ ॥ पार्थक्रान्तो दक्षिणोऽनिर्वामस्तु स्पन्दितस्ततः । उत्तो दक्षिणोऽलातो वामः सूची तु दक्षिणः ॥ ११९६ ॥ पार्थक्रान्तस्तु वामाज्रिराक्षिप्तीभूय दक्षिणः । भ्रान्त्वा सव्यापसव्येन दण्डपादत्वमागतः ॥ ११९७ ।। वामः क्रमेण सूची स्याद् भ्रमरश्चाथ दक्षिणः । भुजङ्गत्रासितो वामोऽतिक्रान्तो विहृताभिधे ॥ ११९८ ॥
इति विहृतम् (८) सूची च भ्रमरी वामे क्रमात्पादे तु दक्षिणे । भुजङ्गत्रासितां चारीमलातां दक्षिणेतरे ।। ११९९ ॥
ऊरूद्वृत्तः विच्यवश्व । ततः स्थितावर्तीद्वयावतॊक्तभेदसप्तकम् । ततो वामः, स्पन्दित:, दक्षिण: पार्श्वक्रान्तः, वामो भुजङ्गत्रासितः, दक्षिणोऽतिक्रान्त:, वाम उद्वृत्तः, दक्षिणोऽलातः, पुनर्वाम: पार्श्वक्रान्त: सूची दक्षिणं विक्षिप्य अपक्रान्तत्वं नीयते ; तद् विचित्रम् ॥ ११९२-११९४-॥
____ इति विचित्रम् (७) (सु०) विहृतं लक्षयति-दक्षिण इति । यत्र दक्षिणो विच्यवो भूत्वा, अनन्तरं स्पन्दितः पार्श्वक्रान्तश्च । ततो वाम: स्पन्दितः, उद्वृत्तश्च ; ततो दक्षिणोऽलातः, वामः सूची, पुनर्दक्षिणः पार्थक्रान्तः, वाम आक्षिप्तः, दक्षिणः सव्यापसव्येन भ्रान्त्वा दण्डपादत्वं गच्छति ; पुनर्वामः क्रमेण सूची भ्रमरश्च; दक्षिणो भुजङ्गत्रासित:, वामोऽतिक्रान्तश्च भवति । तद् विहृतम् ॥ ।। -११९५-११९८ ॥
इति विहृतम् (८) (सु०) अलातं लक्षयति-सूचीमिति । यत्र वामः सूची भ्रमरी कुरुते,
Scanned by Gitarth Ganga Research Institute