________________
सप्तमो नर्तनाध्यायः
३३७ ऊरू विस्तारितौ बाहू पादौ विस्तारिताश्चितौ । यदा निमीलिते नेत्रे विष्कम्भं भणितं तदा ॥ १०९९ ॥ योगे ध्याने भवेदेतत्स्वभावेन यदासने ।
इति विष्कम्भितम् (४) समे पाणी सह स्फिग्भ्यां भूतले चरणौ समौ ॥ ११०० ॥ यदा तदोत्कटं योगध्यानसंध्याजपादिषु ।
इत्युत्कटम् (५) हस्तौ स्रस्तौ विमुक्तौ च शरीरमलसं यदा ॥ ११०१॥ लोचने मन्थराकारधरे स्रस्तालसं तदा । हानिग्लानिमदव्याधिमूर्छाभीतिषु तद्भवेत् ॥ ११०२॥
इति सस्तालसम् (६) (सु०) विकम्भितं लक्षयति-ऊर्विति । यत्र ऊरू विस्तारितौ ; बाहू पादौ च अञ्चितौ भवतः ; नेत्रे निमीलिते च भवतः ; तद् विष्कम्भितम् । तच्च योगे, ध्याने, स्वभावासने च कार्यम् ॥ १०९९, १०९९-॥
इति निष्कम्भितम् (४) (सु०) उत्कटं लक्षयति-समे इति । यत्र पाणी समे ; पादौ भूतले समौ च भवतः ; तद् उत्कटम् । तच्च योगध्यानसंध्याजपादिषु प्रयोज्यम् ॥ ११००, ११००- ॥
इत्युत्कटम् (५) (सु०) स्रस्तालसं लक्षयति-हस्ताविति । यत्र हस्तौ स्रस्तौ विमुक्तौ च भवतः ; शरीरमलसं, लोचने मन्थराकारधरे च भवतः ; तत् स्रस्तालसम् । तच्च हानिग्लानिमदव्याधिमूर्छाभीतिषु प्रयोज्यम् ॥ ११०१, ११०२ ॥
इति प्रस्तालसम् (६)
Scanned by Gitarth Ganga Research Institute