SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः विस्तारिताश्चितावधी यत्रोरः किंचिदुन्नतम् । करावूरुकटिन्यस्तौ स्वस्थं स्थानं तदुच्यते ॥ १०९५ ॥ इति स्वस्थम् (१) एकः प्रसारितः किंचिदन्योऽङ्घ्रिस्त्वासनाश्रितः । शिरःपार्श्वगतं यत्र तन्मदालसमिष्यते ॥ १०९६ ॥ मदे विपदि निर्वेदेऽप्यौत्सुक्ये विरहे भवेत् । इति मदालसम् (२) इस्तौ चिबुकविन्यस्तौ बाहुशीर्षश्रितं शिरः ॥ १०९७ ॥ ईषद्बाष्पे च नयने यत्र क्रान्तमुदाहृतम् । निर्जने निगृहीते च शोकग्लाने भवेदिदम् ॥ १०९८ ॥ इति क्रान्तम् (३) (सु०) अथोपविष्टस्थानकानि लक्षयति-विस्तारितेति । यत्र पादौ विस्तारिताञ्चितौ, उर ईषदुनतम् , हस्तौ ऊरुकटीन्यस्तौ च भवतः ; तत् स्वस्थम् ॥ १०९५ ॥ इति स्वस्थम् (१) (सु०) मदालसं लक्षयति--एक इति । यत्र एकः पादः किंचित् प्रसारितः, अन्यश्च तथा शिर:पार्श्वगतं च भवति ; तत् मदालसम् । तच्च मदे, विपदि, निवेदे, औत्सुक्ये, विरहे च कार्यम् ॥ १०९६, १०९६- ॥ इति मदालसम् (२) (सु०) क्रान्तं लक्षयति-- हस्ताविति । यत्र हस्तौ चिबुकन्यस्तौ, शिरः बाहशीर्षगतं भवति ; नयने च ईषद्बाष्पयुते भवतः ; तत् क्रान्तम् । इदं निर्नने, निगृहीते, शोकग्लाने च कार्यम् ॥ -१९०७, १०९८ ॥ इति कान्तम् (३) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy