________________
सप्तमो नर्तनाध्यायः
३३५ आकुञ्चितः पुरो वामः पश्चादन्यस्तु जानुना । भुवं गतौ यदा पादौ गारुडं गदितं तदा ॥ १०९१॥
इति गारुडम् (२०) दक्षिणश्चरणो जानुबाह्यगुल्फमिलक्षितिः । वामः समो भवेद्यत्र कूर्मासनमदो विदुः ॥ १०९२ ॥
इति कूर्मासनम् (२१) यदोपविश्य वामोरोः पृष्ठे न्यस्यति दक्षिणाम् । जवां तदा नागबन्धमभ्यधात्करणाग्रणीः ।। १०९३ ।।
इति नागबन्धम् (२२) वियुते संयुते वा चेन्जानुनी संस्थिते क्षितौ । वृषभासनमाख्यातं सौष्ठवाधिष्ठितं तदा ॥ १०९४ ॥
इति वृषभासनम् (२३)
इति त्रयोविंशतिर्देशीस्थानानि । (सु०) गारुडं लक्षयति-आकुञ्चित इति । यत्र वामः पादः पुरः कुञ्चितः, अन्य: पाद: जानुभूमिगतो भवति ; तद गारुडम् ॥ १०९१ ॥
___ इति गारुडम् (२०) (सु०) कूर्मासनं लक्षयति-दक्षिण इति । यत्र दक्षिणः पादः जानुबाह्यगुल्फमिलितभूमिः, वामश्च समो भवति ; तत् कूर्मासनम् ॥ १०९२ ॥
इति कूर्मासनम् (२१) (सु०) नागबन्धं लक्षयति-यदेदि । यदा उपविश्य वामोरुपृष्ठे दक्षिणजङ्घाध्यस्यते ; तदा नागबन्धम् ॥ १०९३ ॥
___ इति नागबन्धम् (२२) (सु०) वृषभासनं लक्षयति-वियुत इति । यत्र जानुनी संयुज्य, वियुज्य वा भूस्थिते भवतः ; तत् सौष्ठवाधिष्ठितं वृषभासनं भवति ॥ १०९४ ॥
इति वृषभासनम् (२३) इति त्रयोविंशतिर्देशीस्थानानि ।
Scanned by Gitarth Ganga Research Institute