________________
३३४
संगीतरत्नाकरः
एकः समोऽङ्घ्रिरन्यश्चेत्कुञ्चितीकृत्य पृष्ठतः । जानुसंधिसमत्वेनोत्क्षिप्तो ब्राह्मं तदुच्यते ।। १०८८ ॥ इति ब्राह्मम् (१७)
सममेकं विधायाङ्घ्रिमन्यश्चेत्कुञ्चितो मनाक् । पुरः प्रसारितस्तिर्यक्पदं स्याद्वैष्णवं तदा ।। १०८९ ॥ इति वैष्णवम् (१८)
अङ्घ्रः समस्य वामस्य जानुशीर्षसमोऽपरः । उद्धृतः कुञ्चिताकारो यत्र शैवं तदुच्यते ।। १०९० ।। इति शैवम् (१९)
अन्यः भूलग्नपार्णिकं तिर्यक्प्रसारितश्च भवति ; तत् खण्डसूचि ॥ १०८७ ॥ इति खण्डसूचि (१६)
(सु० ) ब्राह्मं लक्षयति - एक इति । यत्र एकः पादः समः, अन्यः पृष्ठतः कुञ्चितो भूत्वा जानुसंधिसमत्वे नोत्क्षिप्यते ; तद् ब्राह्मम् ॥ १०८८ ॥ इति ब्राह्मम् (१७)
(सु० ) वैष्णवं लक्षयति - सममिति । यत्र एकं पादं समं विधाय, अन्य ईषत्कुञ्चितः पुनः तिर्यक्प्रसारितश्च भवति ; तद् वैष्णवम् ॥ १०८९ ॥ इति वैष्णवम् (१८)
(सु०) शैवं लक्षयति - अङ्ग्रेरिति । यत्र वामपादः जानुशीर्षसमः, अपर: पाद उद्वृत्तः कुञ्चिताकारश्च भवति ; तत् शैवम् ॥ १०९० ॥
इतिशेवम् (१९)
Scanned by Gitarth Ganga Research Institute