________________
सप्तमो नर्तनाध्यायः
३३३ पाणिजङ्घोरुसंलग्नधरणी चरणौ यदा ॥ १०८४ ॥ तिर्यप्रसारितौ स्यातां समसूचि तदोच्यते ।
इति समसूचि (१४) सूचीपादौ पृथग्यत्र पुरः पश्चात्प्रसारितौ ।। १०८५ ॥ युगपद्गदितं तज्ज्ञैः स्थानं विषमसूचि तत् । भूलनजानुगुल्फौ तौ चरणौ केचिदूचिरे ॥ १०८६ ॥
इति विषमसूचि (१५) एकोऽधिः कुञ्चितोऽन्यस्तु भूसंलग्नोरुपाष्णिकः । तिर्यप्रसारितो यत्र खण्डसूचि तदोच्यते ।। १०८७ ।।
___ इति खण्डसूचि (१६) समत्वे विवक्षिते त्वङ्गुष्ठकनिष्ठिकाग्रहणमनर्थकं स्यात् । पादग्रहणेनैव गतार्थत्वादिति ॥ १०८३ - ॥ |
___ इति त्रयोविंशतिर्देशीस्थानानि । (सु०) परावृत्तं लक्षयति-परावृत्त इति । यत्र अङ्गुष्ठकनिष्ठिके पार्यो परावृत्ते समे च भवतः ; तत् परावृत्तम् ॥ १०८३- ॥
इति परावृत्तम् (१३) (सु०) समसूचि लक्षयति-पाणीति । यत्र पाणिजबोरुभूलग्नं पादौ च तिर्यक्प्रसारितौ भवतः ; तत् समसूचि ॥ -१०८४, १०८४- ॥
इति समसूचि (१४) (सु०) विषमसूचि लक्षयति-सूचीपादाविति । यत्र सूचीपादौ पुरः पश्चाच्च पृथगेव युगपत्प्रसारितौ च भवतः; तद् विषमसूचि । केचित् तौ चरणौ भूलग्नजानुगुल्फो वदन्ति ॥ -१०८५, १०८६ ॥
इति विषमसूचि (१५) (सु०) खण्डसूचि लक्षयति-एक इति । यत्र एकः पादः कुञ्चितः,
Scanned by Gitarth Ganga Research Institute