________________
३३२
संगीतरत्नाकरैः
समस्याङ्घ्रः पुरः किंचिदपरश्चरणो यदा । स्याद्वाह्यपार्श्वगस्तिर्यगेकपार्श्वगतं तदा ।। १०८२ ।। इत्येकपार्श्वगतम् (११)
एकः समोऽङ्घ्रिरन्यचेदन्तरे चतुरङ्गुले । तिर्यक्कुञ्चितजानुः स्यादेकजानुनतं तदा ।। १०८३ । इत्येकजानुनतम् (१२)
परावृत्ते समे स्यातां पार्ल्याङ्गुष्ठकनिष्ठिके ।
इति परावृत्तम् (१३)
(सु० ) एकपार्श्वगतं लक्षयति – समस्येति । यत्र समपादस्य पुरतः, अपरः पादः बाह्यपार्श्वे किंचित् तिर्यग्भवति ; तद् एकपार्श्वगतम् ॥ १०८२ ॥ इत्येकपार्श्वगतम् (११)
(सु० ) एकजानुनतं लक्षयति - एक इति । यत्र एकः पादः समः, अन्यः चतुरङ्गुलान्तरे तिर्यक् कुञ्चितजानुर्भवति ; तद् एकजानुनतम् ॥ १०८३ ॥ इत्येकजानुनतम् (१२)
(क० ) परावृत्ताख्यस्य स्थानकस्य लक्षणे – अङ्गुष्ठकनिष्टिके पाय समे स्यातामित्युच्यते । तस्यायमर्थोऽवगन्तव्यः । द्वयोः पादयोकस्याङ्गुष्ठ इतरस्य कनिष्ठिका चेत्यङ्गुष्ठकनिष्ठिकेति द्वन्द्वः । ते पाय समे स्यातामिति । वामाङ्गुष्ठो दक्षिणपार्थ्या समः ; दक्षिणकनिष्ठिका वामपार्ष्या समा; यद्वा दक्षिणाङ्गुष्ठो वामपार्ण्या समः ; वामकनिष्ठिका दक्षिणपाय समेति । अत्र समत्वमेकदेशस्थितत्वमवगन्तव्यम् । अन्यथैकपादस्याङ्गुष्ठकनिष्ठयोस्तदीयपाय समत्वं न संभवति । एवं पादान्तरपाय समत्वं तूक्तप्रकारेण संभवति । पादान्तरपाणिपश्चाद्भागस्थित्या
Scanned by Gitarth Ganga Research Institute