________________
३३१
सप्तमो नर्तनाध्यायः भूलनाङ्गुलिपृष्ठोऽघिः पश्चादेकोऽपरः पुरः । समो यत्र तदादिष्टं पृष्ठोत्तानतलं बुधैः ॥ १०७९ ॥
इति पृष्ठोतानतलम् (७) नन्द्यावर्तस्य चेदङ्घयोर्भवेदष्टादशाङ्गुलम् । अन्तरं चतुरैः स्थानं चतुरनं तदोदितम् ॥ १०८० ॥
इति चतुरश्रम् (८) पाणिरगुष्ठसंश्लिष्टा पाणिविद्धे विधीयते ।
इति पाणिविद्धम् (९) पाणिपार्श्वगते पाणिरन्तः पार्थान्तरस्थितः ।। १०८१ ।।
इति पाणिपार्श्वगतम् (१०)
(सु०) पृष्ठोत्तानतलं लक्षयति-भूलनेति । यत्रएक: पाद: पश्चाद् भूमिलग्नाशुलिपृष्ठः, अन्यः पुरः समश्च भवति । तत् पृष्ठोत्तानतलम् ।। १०७९ ॥
इति पृष्ठोत्तानतलम् (७) ___ (सु०) चतुरनं लक्षयति-नन्द्यावर्तेति । यदा नन्द्यावर्त एव पादयोरन्तरम् अष्टादशाङ्गुलं भवति । तदा चमुरश्रम् ॥ १०८० ॥
इति चतुरश्रम् (0) (सु०) पाणिविद्धं लक्षयति-पाणिरिति । यत्र पाणि: अड्गुष्ठसंश्लिष्टा ; तत् पाष्णिविद्धम् ॥ १०८०- ॥
इति पाणिविद्धम् (९) (सु०) पाणिपार्श्वगतं लक्षयति-पाणीति । यत्र पाणिः, पाणिपार्श्वगता ; तत् पाणिपार्श्वगतम् ॥ -१०८१ ॥
इति पाणिपार्श्वगतम् (१०)
Scanned by Gitarth Ganga Research Institute