________________
३३०
संगीतरत्नाकरः अस्यैव चेचरणयोरन्तरं स्यात्षडगुलम् । वितस्तिमात्रमथवा नन्द्यावर्त तदोदितम् ॥ १०७५ ॥ .
इति नन्यावर्तम् (३) देहः स्वाभाविकोऽङ्गुष्ठौ पादयोथेन्मिथो युतौ । गुल्फौ च संहतं तत्स्यात्पुष्पाञ्जलिविसर्जने ॥ १०७६ ॥
इति संहतम् (१) वपुः स्वाभाविकं पादौ वितस्त्यन्तरिताउजू । यत्र तत्समपादाख्यं शाईदेवः समादिशत् ॥ १०७७ ॥
इति समपादम् (५) समस्याऽस्तु जानूवं बाह्यपाधं यदीतरः । बाह्यपाधैन लमोऽघिरेकपादं तदोच्यते ॥ १०७८ ॥
इत्येकपादम् (५) (सु०) नन्द्यावर्त लक्षयति-अस्यैवेति । अस्मिन्नेव पादयोरन्तरालं षडङ्गुलं वा वितस्तिमात्रं वा भवति ; तदा नन्द्यावर्तम् ॥ १०७५ ॥
इति नन्यावर्तम् (३) (सु०) संहतं लक्षयति-देह इति । यत्र देहः स्वाभाविकः, पादाङ्गुष्ठौ गुल्फो च मिथः संयुतौ भवतः; तद् संहतम् । तत्पुष्पाञ्जलिविसर्जने कार्यम् ॥ १०७६ ॥
" इति संहतम् (४) (सु.) समपादं लक्षयति-वपुरिति । यत्र शरीरं स्वाभाविकम् ; पादौ वितस्त्यन्तरालगतौ ऋजू भवतः ; तत् समपादम् ॥ १०७७ ॥
इति समपादम् (५) (सु०) एकपादं लक्षयति-समस्येति । यत्र एकः समपादः, जानू स्वबाह्यपार्श्वगतः, इतरो बाह्यपार्श्वलग्नः ; तद् एकपादम् ॥ १०७८ ॥
इत्येकपादम् (६)
Scanned by Gitarth Ganga Research Institute