________________
३२८
संगीतरत्नाकरः गत्युन्मुखी च यत्रैक पदमुद्धृत्य नर्तकी । उदास्ते तद्गतिस्थित्योनिरोधात्स्याद्गतागतम् ॥ १०६९ ॥
इति गतागतम् (४) शरीरमीषदलितं पादो वलितदिग्भवः । कनिष्ठाश्लिष्टभूरन्यो भूलनाङ्गुष्ठको यदा ।। १०७० ।। तदा वलितमाख्यातं साभिलाषविलोकने ।
___इति वलितम् (५) एकः समोऽधिरन्यस्तु कुश्चितोऽर्धतलागुलिः॥ १०७१॥ अग्रे यदोर्ध्वगौ इस्तौ कर्कटौ मोटितं तदा । कामावस्थासु सर्वासु विनियोगोऽस्य कीर्तितः॥ १०७२ ॥
___ इति मोटितम् (६) (सु०) गतागतं लक्षयति-गतीति । यत्र नर्तकी एकं चरणमुद्धृत्य गत्युन्मुखी वर्तते, गतिस्थितिनिरोधयुक्तं तद् गतागतं भवति ॥ १०६९ ॥
__ इति गतागतम् (४) (सु०) वलितं लक्षयति--शरीरमिति । यत्र शरीरमीषद्वलितं भवति । एकः पादः कनिष्ठाश्लिष्टभूमिः, अन्यो भूमिलग्नाङ्गुष्ठश्च भवति ; तद्वलितम् । तञ्च साभिलाषविलोकने प्रयोज्यम् ॥ १०७०- ॥
इति वलितम् (५) (सु०) मोटितं लक्षयति-एक इति । यत्र एकः पादः समः, अन्यः कुञ्चितः, अर्धतलागुलिश्च भवति ; अग्रेकर्कटहस्तौ ऊर्ध्व गच्छतः, तन्मोटितम्। तच्च सर्वास्वपि कामावस्थासु विनियुज्यते ॥ -१०७१, १०७२ ॥
इति मोटितम् (६)
Scanned by Gitarth Ganga Research Institute