________________
सप्तमो नर्तनाध्यायः
अवहित्थं तदेव स्याद्विपर्यासेन पादयोः । चिन्तावितर्कयोस्तोषे संलापे च निसर्गजे ।। १०६३ ॥ विस्मये भूरिसौभाग्यगर्वजे स्वाङ्गवीक्षणे । लीलाविलास लावण्यवरमार्गविलोकने ।। १०६४ | कार्यं दौर्गमिदं स्थानमवहित्थस्य सूचकम् । इत्यवहित्थम् (२)
३२७
समस्यैकस्य पादस्य पाष्णिदेशगतोऽपरः ।। १०६५ ॥ सूचीपादः स्वपार्श्वे वा समस्तालान्तरे स्थितः । यत्राश्वारोहणारम्भे तदश्वक्रान्तमुच्यते ।। १०६६ ॥ स्खलिते विगलद्वस्त्रधारणे गोप्यगोपने । प्रसून स्तवकादाने तरुशाखावलम्बने ।। १०६७ ।। नैसर्गिके च संलापे विभ्रमे ललिते तथा । प्रयोक्तव्यमिदं स्थानं भारती चात्र देवता ।। १०६८ ॥ इत्यश्वक्रान्तम् (३)
(सु०) अवहित्थं लक्षयति - अवहित्थमिति । यत्र पादयोर्विपर्यासेन रचितं तदेव अवहित्थम् । तच्च चिन्तावितर्कतोपसंलापेषु, नैसर्गिकविस्मये, भूरिसौभाग्यगर्वेण स्वाङ्गावलोकने, लीलाविलासलावण्यवर मार्गविलोकने च प्रयोज्यम् । इदं तु दुर्गादेवताकम् ॥ १०६३, १०६४- ॥ इत्यवहित्थम् (२)
(सु० ) अवक्रान्तं लक्षयति - समस्येति । यत्र समैकपादपाणिदेशगतः, सूत्रिपादोऽपरः, स्वपार्श्वे वा समात् तालान्तरे वा तिष्ठति, तद् भारतीदेवतात्मकम् अश्वक्रान्तं भवति । तच्च अश्वारोहणारम्भे, स्खलिते, विगलद्वस्त्रधारणे, गोप्यगोपने, पुष्पस्तबकादाने, वृक्षशाखावलम्बने, नैसर्गिकसंलापे, विभ्रमे, ललिते च प्रयोज्यम् ॥ - १०६५-१०६८ ॥
इत्यश्वक्रान्तम् (३)
Scanned by Gitarth Ganga Research Institute