________________
३२६
संगीतरत्नाकर: स्थानं चिकीर्षितासु स्यात्क्षतासु च गतिष्विदम् । आभाषणे च कर्तव्ये सखीप्रियतमादिभिः ॥ १०५७ ॥ रङ्गावतरणारम्भे पुष्पाञ्जलिविसर्जने । अमर्षे चाभिलाषाप्रभवेऽङ्गुलिमोटने ॥ १०५८ ॥ तर्जने प्रतिषेधे च कार्य मानावलम्बने । गर्वगाम्भीर्यमौने स्यादावाहनविसर्जने ॥ १०५९ ॥ पूर्वरङ्गे स्त्रीभिरेव प्रयोज्यं केचिदूचिरे । । नरो नार्योऽथवा कुर्युः प्रवेशे स्थानकं स्त्रियाः ॥ १०६० ॥ स्थानं यथाभिनेयं स्यात्प्रविष्टेष्विति चापरे । आयतानन्तरं कार्या रङ्गावतरणादयः ।। १०६१ ।। हस्तपादप्रचारस्तु तेषु ज्ञेयो यथोचितम् । भट्टाभिनवगुप्तस्य मतमेतदुदीरितम् ॥ १०६२ ॥
इत्यायतम् (१) (सु०) अथ स्त्रीस्थानकानि लक्षयति–वाम इति । यत्र वामः पादः तालान्तरे त्र्यश्रः, दक्षिणः पादः समः, मुखं प्रसन्नम् , वक्ष: समुन्नतं च, कटी चोन्नता, वामहस्तो लताकरः, दक्षिणहस्तो नितम्बगतश्च भवति, तत् कमलादेवताकम् आयतं स्थानं भवति । इदं स्थानं चिकीर्षितासु क्षतासु गतिषु प्रयुज्यते । सखीप्रियतमाद्याभाषणे, रङ्गावतरणारम्भे; पुष्पाञ्जलिविसर्जने, अमर्षे, अभिलाषाप्रभवे, अङ्गुलिमोटने, गर्वगाम्भीर्यमौने, आवाहनविसर्जने, पूर्वरङ्गे च स्त्रीभिरेव प्रयोज्यमिति केचिदाचार्या ऊचिरे । नरो वा नार्यो वा प्रवेशे स्थानकं कुर्युः । प्रविष्टेष्वपि स्थानमभिनेतव्यमित्यपरे । आयतानन्तरं रङ्गावतरणादिकं कार्यम् । तत्र हस्तपादप्रचाराः यथोचितं ज्ञेया इति भट्टाभिनवगुप्तस्य मतम् ॥ १०५५-१०६२ ॥
इत्यायतम् (१)
Scanned by Gitarth Ganga Research Institute