SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः ३२५ प्रयोगस्त्वन्त्ययोस्तज्ज्ञैरिष्टो नाटयैकगोचरः । अन्ये पश्चविधेऽप्याहुर्नर्तने स्थानकानि षट् ॥ १०५४ ॥ ___ इति प्रत्यालीढम् (६) इति षट्पुरुषस्थानकानि । वामस्तालान्तरस्यश्रो दक्षिणश्वरणः समः । प्रसन्न वदनं वक्षः समुन्नतमनुन्नता ॥ १०५५ ॥ कटीनितम्बगो हस्तो दक्षिणोऽन्यो लताकरः। यत्रायतं तदाख्यातं कमला चात्र देवता ॥ १०५६ ॥ (क०) अत्र पुरुषकर्तृकाणां षण्णां स्थानकानां साधारण विनियोगप्रदर्शनावसरे पञ्चविधे नर्तन इत्युक्तम् । तत्र नाट्यनृत्यनृत्तलास्यताण्डवभेदेन नर्तनस्य पूर्वोक्तं पञ्चविधत्वमनुसंधेयम् ॥ १०५४ ॥ ___ इति प्रत्यालीढम् (६) इति षट्पुरुषस्थानकानि । (सु०) प्रत्यालीढं लक्षयति-आलीटेति । आलीढाङ्गव्यत्यासात्प्रत्यालीढं भवति । आलीढे संधीयमानशस्त्रस्यात्र मोक्षणं कार्यम् । अत्रापि रुद्रदैवतं, शंभुवल्लभः ; शार्ङ्गदेवो भाषते । अत्र आद्यस्थानचतुष्टयं नाव्यनृत्तयोः प्रयुज्यते । अन्यद् द्वयं नाव्यमात्रगोचरं भवति । अन्ये पञ्चविधेऽप्याहुः ॥ १०५२१०५४ ॥ इति प्रत्यालीढम् (६) इति षट्पुरुषस्थानकानि । (क०) आयतस्थानविनियोगे-रङ्गावतरणारम्भ इत्युक्तम् ? रङ्गावतरणं नाम पात्रस्य रङ्गप्रवेशोपक्रमः ॥ १०५५-१०६२ ॥ इत्यायतम् (१) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy