________________
३२२
संगीतरत्नाकरः प्रधानं सौष्ठवं पादावेकतालान्तरौ समौ । यत्र तत्समपादं स्याच्चतुराननदैवतम् ॥ १०४१ ॥ एतच्च विप्रदत्ताशीःस्वीकारेऽथ निरीक्षणे । मध्यमानां विहङ्गानां कन्यावरकुतूहले ॥ १०४२ ।। लिङ्गिवतिविमानस्थस्यन्दनस्थेषु चेष्यते ।
इति समपादम् (२) सन्नं स्वस्थानविश्रान्तं निषण्णं त्वचलस्थितीति । सौष्ठवे शरीरस्य स्थितिविशेषमाह-चलपादमित्यादि । चतुरश्रस्य जीवनमित्येतेन प्रसक्तस्य चतुरश्रस्य लक्षणमाह-वैष्णवं स्थानकं यत्रेत्यादि । १०३१-१०४०॥
___ इति वैष्णवम् (१) (सु०) तत्र वैष्णवस्थानकं लक्षयति- एक इति । यत्र एक: पाद: समः, अन्यः त्र्यश्रीभूय वक्षसि वर्तते ; जङ्घा च सार्धतालद्वयान्तराले किंचिन्नता भवति । तत्सौष्ठवं विष्णुदेवतासंबन्धि वैष्णवं स्थानं भवति । तच्च प्रकृतिस्थस्य नानाकार्यान्तरलंसापे उत्तमैः मध्यमैश्च पुरुषैः प्रयोज्यमिति मुनेर्मतम् । अपरे तु विष्णुवेषधारिणेव नटेनेत्याहुः । अन्ये नाट्यस्थितिका सूत्रधारादिना प्रयोज्यमित्याहुः । पक्षस्थित इति । यश्चरणः पार्धाभिमुखामुलिर्भवति, असौ पक्षस्थितः । अङ्गुष्ठेति । हस्तस्य प्रसारित अङ्गुष्ठमध्यमाङ्गुल्यग्रान्तरालं ताल इत्युच्यते । कटीति | यत्र कटीकूर्परजानुशिरःसमं वक्षः समुन्नतं, गात्रं च सन्नं तत्सौष्ठवम् । सौष्ठवे अङ्गं सन्नं स्वस्थानविश्रान्तं निषण्णं, समपादं, अनत्युच्चम् , अचञ्चलम् , अकुब्जं च भवति । एतदेव चतरश्रजीवनं वैष्णवं स्थानम् । यत्र हस्तकटी नाभिचारिणौ, वक्षः समुन्नतं च भवति, तत् चतुरश्रमित्युच्यते ॥ -१०३१-१०४०- ॥
इति वैष्णवम् (१) (क०) अतः परं समपादादीनि स्थानकानि ग्रन्थत एव व्यक्तलक्षणानि ॥ १०४१-१०५३ ॥
Scanned by Gitarth Ganga Research Institute