________________
३२१
सप्तमो नर्तनाध्यायः विष्णुवेषधरेणैव नटेनेत्यपरे जगुः । सूत्रधारादिना नाट्यस्थितिकति चापरे ।। १०३४ ॥ पक्षस्थितोऽसौ चरणो यः पार्थाभिमुखागुलिः । त्र्यश्रः स एव किंचिच्चेत्पुरोदेशाभिमुख्यभाक् ॥ १०३५ ॥ अङ्गुष्ठमध्यमाङ्गुल्यौ ये हस्तस्य प्रसारिते । तदग्रयोरन्तरालं तालमाहुर्मनीषिणः ।। १०३६ ।। कटी जानुसमा यत्र कूर्परांसशिरःसमम् । उरः समुन्नतं सन्नं गात्रं तत्सौष्ठवं भवेत् ॥ १०३७॥ संत्रं स्वस्थानविश्रान्तं निषण्णं त्वचलस्थिति । चलपादमनत्युच्चमचञ्चलमकुब्जकम् ॥ १०३८ ।। सौष्ठवेऽङ्गं भवेत्तच्च कार्यमुत्तममध्यमैः । एतच्च वैष्णवं स्थानं चतुरश्रस्य जीवनम् ॥ १०३९ ॥ वैष्णवं स्थानकं यत्र कटीनाभिचरौ करौ। पृथक्समुन्नतं वक्षश्चतुरश्रं तदुच्यते ॥ १०४० ॥
इति वैष्णवम् (१) तत्र पक्षस्थितस्य पादस्य लक्षणमाह-यः पार्थाभिमुखामुलिरिति । व्यश्रस्य लक्षणमाह-व्यश्रः स एवेति । पक्षस्थित एव किंचित्पुरोदेशाभिमुख्यभाक्चेत् , व्यश्रो भवति । अत्र तालशब्देन रेखाशास्त्राश्रयः परिमाणभेद उच्यते । तस्य तालस्य लक्षणमाह-अगुष्ठमध्यमाङ्गुल्यावित्यादि । इदमेवादेशपरिमाणम् - " तालान्तरौ तदा स्यातामतालखटकामुखौ" इत्यादिषु द्रष्टव्यम् । न तु प्रसिद्ध कालपरिमाणं तद्वयञ्जको घनवाद्यभेदो वा । सौष्ठवस्य लक्षणमाह-कटी जानुसमेत्यादि । कूर्परांसशिर इति । कूर्परौ चांसौ च शिरश्चेति प्राण्यङ्गत्वादेकवद्भावः । तानि कूर्परादीनि सौष्ठवे मिथः समानि कर्तव्यानि भवन्ति । प्रसङ्गात्सन्ननिषण्णशब्दयोरर्थमाह
Scanned by Gitarth Ganga Research Institute