SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३२० संगीतरत्नाकर: त्रयोविंशतिरुक्तानि नव स्थानानि चासने ।। १०२९ ।। सुप्तस्थानानि षट् तानि सर्वाणि मिलितानि तु । एकपञ्चाशदाचष्ट निःशङ्कः करणाग्रणीः ।। १०३०॥ सर्वेषां वच्मि लक्ष्मैषामिदानीं तद्विदां मतम् । एकः समस्थितः पादस्त्र्यत्रः पक्षस्थितोऽपरः सार्धद्वितालान्तरालो जङ्घा किंचिन्नता भवेत् । सौष्ठवं यत्र तज्ज्ञेयं वैष्णवं विष्णुदैवतम् ।। १०३२ ॥ प्रकृतिस्थस्य संलापे नानाकार्यान्तरान्विते । प्रयोज्यं तन्मुनिः प्राह नृभिरुत्तममध्यमैः || १०३३ ॥ १०३१ ॥ शत्स्थानकेषु मध्ये, स्वस्तिकादीनि त्रयोविंशतिः स्थानकानि देशीस्थानकानि । देशीमार्गविवेकश्च चार्युक्तप्रकारेण द्रष्टव्यः ॥ १०१९-१०३०- ॥ (सु० ) अथ देशीस्थानानि लक्षयति - अथेति । देशीस्थानानि त्रयोविंशतिविधानि—स्वस्तिकम्, वर्धमानम्, नन्द्यावर्तम्, संहतम्, समपादम्, एकपादम्, पृष्ठोत्तानतलम्, चतुरश्रम्, पाष्णिविद्धम्, पाष्णिपार्श्वगतम्, एकपार्श्वगतम्, एकजानुगतम्, परावृत्तम्, समसूचि, विषमसूचि, खण्डसूचि, ब्राह्मम्, वैष्णवम्, शैवम्, गारुडम्, कूर्मासनम्, नागबन्धम्, वृषभासनमिति । उपविष्टस्थानकान्याह - स्वस्थ मिति । स्वस्थम्, मदालसम्, क्रान्तम्, विष्कम्भम्, उत्कटम्, स्रस्तालसम्, जानुगतम्, मुक्तजानु, विमुक्तमिति नव उपविष्टस्थानकानि । सुप्तस्थानकान्याह - सममिति । समम्, आकुञ्चितम् प्रसारितम्, विवर्तितम्, उद्वाहितम्, नतमिति षट् सुप्तस्थानकानि । आहत्यैकपञ्चाशत्स्थानकानि भवन्ति । तत्र स्वस्तिकादीनि त्रयोविंशतिः देशीस्थानकानि । देशीमार्गविभागस्तु चार्युक्तप्रकारेण बोध्यः ॥ -१०२२-१०३०- ॥ (क०) तत्र वैष्णवस्थानकस्य लक्षणम् - एकः समस्थित इत्यादि । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy