________________
सप्तमो नर्तनाध्यायः
३२३ भूमेरूद्धनिषण्णौ चेत्सार्धतालत्रयान्तरे ॥ १०४३ ॥ नभस्यूरू चरणयोस्तावदेवान्तरं भुवि । ज्यश्रपक्षस्थयोः स्थानं वैशाखं कथितं तदा ॥ १०४४ ॥ विशाखदैवतं तच्च स्थूलपक्षीक्षणे भवेत् । युद्धादौ प्रेरणेऽश्वानां वेगदाने च वाहने ॥ १०४५ ।।
इति वैशाखम् (३) पक्षस्थौ चरणौ व्यश्रावकतालान्तरौ भुवि । कटीजानुसमौ व्योम्नि सार्धतालद्वयान्तरे ।। १०४६ ॥ ऊरू यत्र निषण्णौ तन्मण्डलं शक्रदैवतम् । धनुर्वजादिशस्त्राणां प्रयोगे गजवाहने ॥ १०४७ ।। वीक्षणे गरुडादीनामिदं मुनिरुपादिशत् । चतुस्तालान्तरौ पादौ मण्डलेऽन्ये प्रचक्षते ॥ १०४८ ॥
इति मण्डलम् (४) (सु०) समपादं लक्षयति-प्रधानमिति । यत्र पूर्वोक्तं सौष्ठवं प्रधानम् , एकतालान्तरे पादौ च समौ भवतः ; तद् ब्रह्मदेवताकं समपादं भवति । तच्च विप्रार्पिताशीर्वचनस्वीकरणे, मध्यविहङ्गनिरीक्षणे, कन्यावरकौतुके, लिङ्गिनि, व्रतिनि, विमानस्थे, स्यन्दनस्थे च प्रयोज्यम् ॥ १०४१-१०५२- ॥
इति समपादम् (२) (सु०) वैशाखं लक्षयति-भूमेरिति । यत्र भूमेः ऊर्ध्वं सार्धतालत्रयान्तराले आकाशे ऊरू निषण्णौ भवतः, तावदेव अन्तराले भूतले चरणौ त्र्यश्रपक्षस्थौ भवतः, तत् वैशाखं भवति। तच्च विशाखदेवताकम् । स्थूलपक्षीक्षणे, युद्धादौ, अश्वानां प्रेरणे, वेगदाने, वाहने च प्रयोज्यम् ॥ -१०४३, १०४५- ॥
इति वैशाकम् (३) (सु०) मण्डलं लक्षयति--पक्षस्थाविति । यत्र पादौ एकतालान्तरौ
Scanned by Gitarth Ganga Research Institute