________________
सप्तमो नर्तनाध्यायः स्थानं स्थितिर्गतिश्चारी स्थानमाद्यन्तयोर्गतेः ॥ १०१७ ॥
कुट्टितं चरणं पश्चाद् भ्रामयित्वा च विन्यसेत् । कुट्टयेच्च ततः स्थाने चक्रकुट्टनिका मता ॥
इति चक्रकुदृनिका (२२) कुदृयित्वा च विन्यस्य भ्रामयित्वा न्यसेत्ततः । निकुट्टयेत्ततः स्थाने मध्यचक्रा प्रकीर्तिता ॥
- इति मध्यचक्रा (२३) कुट्टयित्वा च विन्यस्य लुठितश्च निकुट्टितः । सा मध्यलुठिता चेति कीर्तितान्वर्थनामिका ॥
___ इति मध्यलुठिता (२४) कुट्टयित्वा च विन्यस्य भ्रामितो लठितस्ततः । कुट्टितश्च पुनः स्थाने वक्त्रकुट्टनिकाभिधा ॥
इति वक्त्रकुटनिका (२५) एवं प्रकीर्तिताश्चार्यः पञ्चविंशतिसंख्यया ।
एवमन्याश्च विज्ञेयाश्चार्यो बुद्धया मनीषिभिः" ॥ इति । प्रसङ्गान्मधुपसंज्ञाश्चार्यो दर्शिताः । प्रकृतमनुसरामः ॥ १०१६- ॥
इत्येकोनविंशतिराका शिक्यश्चार्यः । इत्युभय्यश्चतुष्पञ्चाशद्देशीचार्यः ।
इति षडशीतिर्मार्गदेशीचार्य: । (क०) अथ चारीणामनन्तरं स्थानकानां लक्षणे संगति दर्शयितुमाह-स्थानं स्थितिरित्यादि । स्थीयतेऽस्मिन्निति व्युत्पत्त्या अधिकरण
Scanned by Gitarth Ganga Research Institute