________________
३१८
संगीतरत्नाकरः स्थित्वा गच्छति गत्वा च तिष्ठतीत्यविनाकृताः ।
चार्यः स्थानेन ताभ्योऽतोऽनन्तरं स्थानमुच्यते ॥ १०१८ ॥ साधनत्वं मा विज्ञायीतेति स्थानशब्दस्य भावसाधनतां दर्शयति-स्थानं स्थितिरिति । चर्यतेऽनयेति व्युत्पत्त्या गतिरेव चारीशब्दोनोच्यत इत्याह-गतिश्चारीति । तच्च स्थानं गतेरादावन्ते च नियमेन भवतीत्याह-स्थानमाधन्तयोर्गतेरिति । अमुमेवार्थ लोकसंमत्या द्रढयतिस्थित्वा गच्छति गत्वा च तिष्ठतीति । तत्र स्थित्वा गच्छतीति स्थिते. रादिभावनियमो दर्शितः । गत्वा च तिष्ठतीति स्थितेरन्त्यभाव नियमश्च । अत्र धूमाम्योरिख व्याप्तिनियमो द्रष्टव्यः । ततो गतिरेव स्थानेन व्याप्ता । न तु स्थानं गत्येति । यथामिना धूमो व्याप्तः । नतु धूमेनामिरितिवत् । इतीत्यादि । इत्युक्तप्रकारेण चार्यः स्थानेनाविनाकृता व्याप्ताः । यतोऽत इत्यध्याहर्तव्यम् । ताभ्यश्चारीभ्योऽनन्तरमव्यवधानेन स्थानकमुच्यत इति संगतिप्रदर्शनम् । स्थानकानां सामान्यलक्षणमाह-संनिवेशविशेष इत्यादि। निश्चलश्चलनरहितः । अङ्गे शरीरे संनिवेशविशेषः । अत्र विशेषशब्देन बुद्धिपूर्व कृत इत्यवगन्तव्यम् । तेन लौकिकादङ्गसंनिवेशाद्वयावृत्तिद्रष्टव्या ॥ १०१७, १०१८-॥
(सु०) अथ चारीनिरूपणानन्तरं स्थानकानां लक्षणं वक्तुमारभतेस्थानमिति । स्थितिः स्थानमित्युच्यते । गतिः चारीत्युच्यते । स्थित्वा गच्छति, गत्वा च तिष्ठति ; अतः तद् द्वयमप्यविनाभूतम् । स्थानेन चा[पलक्षितः । इदानीं स्थानं कथ्यते । अङ्गे निश्चल: संनिवेशविशेषः स्थानम् । तच्च द्विविधम् , पुंस्थानम् ; स्त्रीस्थानमिति । आद्यं षडिधम् , वैष्णवम् , समपादम् , वैशाखम् , मण्डलम् , प्रत्यालीढम् , आलीढमिति । द्वितीयं सप्तविधम् ; आयतम् , अवहित्थम् , क्रान्तम् , गतागतम् , वलितम् , मोटितम् , विनिवर्तितमिति ॥ -१०१७-१०२१- ।।
Scanned by Gitarth Ganga Research Institute